प्रादात् । तत. समुपजातकोपोऽय नापितस्तं क्षुर दूरादेव गृहे क्षिप्तवान् । अथ
कृतार्तरावेय विनाऽपरावेन मे नासिकानेन न्छिनेत्युक्त्वा धर्माधिकारिसमीपमे-
नमानीतवती । सा च गोपी तेन गोपेन पुन पृष्टोवाच 'अरे पाप ! को मा
महासती विरूपयितु समर्थ १ मम व्यवहारमकल्मषमष्टौ लोकपाला एव
जानन्ति । यत --
आदित्यचन्द्रावनलोऽनश्च
| द्यौभूमिरापो हृदयं यमश्च ।
अहश्च रात्रिश्च उभे च सन्ध्ये
धर्मश्च जानाति नरस्य वृत्तम् ॥ १०९॥
यद्यह परमसती स्याम्, त्वा विहायान्य न जाने, पुरुषान्तर स्वप्रेऽपि नहि भजे, तेन धर्मेण छिनापि मम नासिकाऽन्छिनास्तु । मया त्व भम्म कर्तुं शक्यसे, कि तु स्वामी त्वम्, लोकभयादुपेक्षे, पश्र मन्मुखम् । ततो यावदमौ गोपो दीप प्रज्वाल्य तन्मुखमवलोकते तावदुन्नस मुखमवलोक्य तचरणयोः पतित -“धन्यो- ऽहं यस्येशी भार्या परमसावी' इति । योऽयमास्ते साधुरेतवृत्तान्तमपि कथ- यामि । अय स्वगृहानिर्गतो द्वादशवर्षेमलयोपकण्ठादिमा नगरीमनुप्राप्त । अत्र वेश्यागृहे सुप्त । तस्या. कुट्टिन्या गृहद्वारि स्थापितकाष्ठघटितवेतालस्य मूर्धनि रत्नमेकमुत्कृष्टमास्ते । तत्र लुब्वेनानेन साधुना रात्रावुत्थाय तत्र हस्तो दत्त । तदा तेन वेतालेन सूत्रसंचारितबाहुभ्यो पीडित सन्नार्तनादमय चकार । पश्चा- दुत्थाय कुट्टिन्योक्तम्- पुत्र | मलयोपकण्ठादागतोऽसि, तत्सर्वरत्नानि प्रयच्छास्मै, नो चेदनेन न त्यक्तव्योऽसि । इत्थमेवाय चेटक. ।' ततोऽनेन सर्वरत्नानि सम- र्पितानि, यथायमपहृतसर्वस्वोऽस्मासु समागत्य मिलित । एतत्सर्व श्रुत्वा राज- पुरुषैन्यये धर्माधिकारी प्रवर्तत । अनन्तर तेन नापितवधूमुण्डिता, गोपी च शासिता, कुट्टिनी दण्डिता, साधोधनानि च प्रदत्तानि । अतोऽहं ब्रवीमि- ‘स्वर्णरेखामहं स्पृष्ट्वा ' इत्यादि ।
अथ स्वय कृतोऽय दोष । अत्र विलपन नोचितम् । ( क्षण विमृश्य ) मित्र ! यथानयो सौहार्द मया कारित तथा मित्रभेदोऽपि मया कार्य । यत -