सुहृद्भेदः.] करटको ब्रूते-* यद्येव तर्हि गच्छ । शिवास्ते सन्तु पन्थानः ।' ततो दमनकः पिङ्गलकसमीप गत्वा प्रणम्योवाच- देव ! आत्ययिक किमपि महाभयकार कार्यं मन्यमान समागतोऽस्मि । यत - आपद्युन्मार्गगमने कार्यकालात्ययेषु च । | कल्याणवचनं ब्रूयादपृष्टोऽपि हितो नरः॥ १२१ ॥ अन्नाच- भोगस्य भाजनं राजा मन्त्री कार्यस्य भाजनम् । राजकार्यपरिध्वंसी मन्त्री दोषेण लिप्यते ॥ १२२ ॥ तथा हि पश्य । अमात्यानामेष क्रमः- वरं प्राणपरित्यागः शिरसो वापि कर्तनम् । न तु स्वामिपदावाप्तिपातकेच्छोरुपेक्षणम् ॥ १२३ ॥ पिङ्गलक सादरमाह- * अथ भवान्कि वतुमिच्छति १ ' दमनको ब्रूते-“देव! सजीवकस्तवोपर्यसदृशव्यवहारीव लक्ष्यते । तथा चास्मत्सन्निवाने श्रीमद्देवपादानां शक्तित्रयनिन्दा कृत्वा राज्यमेवााभलषति । एतच्छत्वा पिगलक सभय साश्चय मत्वा तूष्णीं स्थित । दमनक. पुनराह-‘देव ! सर्वामात्यपरित्याग कृत्वैक एवार्य यत्वया सर्वाधिकारी कृत स एव महान् दोष । यत - अत्युच्छूिते मन्त्रिणि पार्थिवे च विष्टभ्य पादावुपतिष्ठते श्रीः । सा स्त्रीस्वभावादसहाभरस्य तयोर्द्वयोरेकतरं जहाति ॥ १२४ ॥ अन्यच्च- एकं भूमिपतिः करोति सचिव राज्ये प्रमाणं यदा तं मोहाच्यते मदः स च मदालस्येन निर्भिद्यते । निर्भन्नस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणान्तिकं दुह्यात॥२५६
पृष्ठम्:हितोपदेशः.djvu/७३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति