पृष्ठम्:हितोपदेशः.djvu/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सुहृद्भेदः. ]
७५
 


दुर्जनो नार्जवं याति सेव्यमानोऽपि नित्यशः।
स्वेदनाभ्यञ्जनोपायैः श्वपुच्छमिव नामितम् ॥ १३४॥

अपर च-

स्वेदितो मर्दितश्चैव रज्जुभिः परिवेष्टितः ।
मुक्तो द्वादशभिर्वषैः श्वपुच्छः प्रकृतिं गतः ॥ १३५ ।।

अन्यच्च-

वर्धनं वाथ सम्मानं खलानां प्रीतये कुतः ।
फलन्त्यमृतसेकेऽपि न पथ्यानि विषद्रुमाः ॥ १३६ ॥

अतोऽहं ब्रवीमि-

अपृष्टोऽपि हितं ब्रूयाद्यस्य नेच्छेत्पराभवम् ।
एष एव सतां धर्मो विपरीतमतोऽन्यथा ॥ १३७ ।।

तथा चोक्तम्-

स स्निग्धोऽकुशलान्निवारयति यस्तत्कर्म यन्निर्मलं
सा स्त्री यातुविधायिनी स मतिमान्यः सद्भिरभ्यर्च्यते ।
सा श्रीर्या न मदं करोति स सुखो यस्तृष्णया मुच्यते।
तन्मित्रं यदकृत्रिमं स पुरुषो यः, खिद्यते नेन्द्रियैः॥१८३॥

यदि सजीवकव्यसनादितो विज्ञापितोऽपि स्वामी न निवर्तते तदा भृत्यस्य न दोषः । तथा च-

नृपः कामासक्तो गणयति न कार्यं न च हितं
यथेष्टं स्वच्छन्दः प्रविचरति मत्तो गज इव ।
ततो मानध्मातः स पतति यदा शोकगहने
तदा भृत्ये दोषान्क्षपात न निजं वैयविनयम् ॥१३९॥

पिगलक -( स्वगतम् )

न परस्यापराधेन परेषां दण्डमाचरेत् ।
आत्मनावगतं कृत्वा बन्नीयात्पूजयेञ्च वा ॥ १४० ॥

तथा चोक्तम्-

गुणदोषावनिश्चित्य विधिर्न ग्रहनिग्रहे ।
स्वनाशाय यथान्यंस्तो दर्पोत्सर्पमुखे करः ॥ १४१॥