पृष्ठम्:हितोपदेशः.djvu/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(७६) [ हितोपदेशे- प्रकाशं ब्रूते-* तदा संजीवकः कि प्रत्यादिश्यताम् १ ' दमनक ससश्रम- माह-देव ! मा मैवम् । एतावता मन्त्रभेदो जायते । तथा ढुक्तम्- मन्त्रबीजमिदं गुप्तं रक्षणीयं यथा तथा । मनागपि न भिद्येत तद्भिन्नं न प्ररोहति ॥ १४२ ॥ कि च- आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः । क्षिप्रमक्रियमाणस्य कालः पिबति तद्सम् ॥ १४३ ॥ तदवश्य समारब्ध महता प्रयत्नेन सपादनीयम् । किच- मन्त्रो योध इवाधीरः सर्वाङ्गः संवृतैरपि । चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ॥ १४४ ॥ यद्यसौ दृष्टदोषोऽपि दोषानिवर्त्य सधातव्यस्तदतीवानुचितम् । यत - सकृद्दिष्टं तु यो मित्रं पुनः सन्धातुमिच्छति । से मृत्युमेव गृह्णाति गर्भमश्वतरी यथा १४५ ॥ सिहो ब्रूते-‘ज्ञायता तावकिमस्माकमसौ कर्तुं समर्थ.।' दमनक आह्-‘देव । अङ्गाङ्गिभावमज्ञात्वा कथं सामर्थ्यनिर्णयः । पश्य टिट्टिभमात्रेण समुद्रो व्याकुलीकृतः ॥ १४६ ॥ सिह पृच्छति- कथमेतत् १' दमनक कथयति- कथा ९. दक्षिणसमुद्रतीरे टिट्टिभदंपती निवसत । तत्र चासन्नप्रसवा टिट्टिभी भर्ताग्मा-‘नाथ । प्रसवयोग्यस्थान निभृतमनुसन्धीयताम् ।' टिट्टिभोऽवदत्- नन्विदमेव स्थान प्रसूतियोग्यम् । सा ब्रूते- समुद्रवेलया व्याप्यते स्थानमेतत् । टिट्टिभोऽवदत् - किमह निर्बल १ यन्मम गृहावस्थितानि अण्डानि समुद्रेणापह- तव्यानि।' टिट्टिभी विहस्याह-‘स्वामिन् । त्वया समुद्रस्य च महदन्तरम् । अथवा- पराभव परिच्छेत्तुं योग्यायोग्यं च वेत्ति यः ।। अस्तीह यस्य विज्ञानं कृच्छ्रेणापि न सीदति॥१४७॥ अपि च- अनुचितकार्यारम्भः स्वजनविरोधो बलीयसा स्पर्धा । प्रमदाजनविश्वासो मृत्योराण चत्वारि ॥ १४८ ॥