विज्ञैः स्निग्धैरुपकृतमपि द्वेष्यतामेति कश्चित्
साक्षादन्यैरपकृतमपि प्रीतिमेवोपयाति ।
चित्रचित्रं किमथ चरितं नकभावाश्रयाणां
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ १५८ ॥
|
अन्यच्चे-
कृतशतमसत्सु नष्टं सुभाषितशतं च नष्टमबुधेषु ।।
वचनशतमवचनकरे बुद्धिशतमचेतने नष्टम् ॥ १५९॥
|
कि च--
चन्दनतरुषु भुजङ्गा जलेषु कमलानि तत्र च ग्राहाः ।
गुणघातिनश्च भोगे खला न च सुखान्यावघ्नानि ॥१६० ॥
|
अन्यच्च----
मूलं भुजङ्गैः कुसुमानि भृङ्गैः
शाखाः प्लवङ्गैः शिखराणि भिल्लैः।
नास्त्येव तञ्चन्दनपादपस्य।
यन्नाश्रितं दुष्टतरैश्च हितैः ॥ १६१ ॥
|
अय तावत्स्वामी वाचि मधुरो विषहृदयो ज्ञात । यत -
दूरादुच्छ्रितपाणिराईनयनः प्रोत्सारितार्धासनो
गाढालिङ्गनतत्परः प्रियकथाप्रभेषु दत्तादरः।
अन्तर्भूतविषो बहिर्मधुमयश्चातीव मायापटुः
को नामायमपूर्वनाटकाविधिर्यः शिक्षितो दुर्जनैः ॥१६२॥
|
तथा हि---
पोतो दुस्तरवारिराशितरणे दीपोऽन्धकारागमे
निर्वाते व्यजनं मदान्धकरिणी दर्पोपशान्त्यै सृणिः ।
इत्थं तदू भुवि नास्ति यस्य विधिना नोपायचिन्ता कृता
मन्ये दुर्जनचित्तवृत्तिहरणे धातापि भग्नोद्यमः ॥ १६३ ॥'
|
सजीवक ( स्वगतम् ) “कष्ट भो । कथमह सस्यभक्षक सिहेन निपातयि-
तव्यः । यतः-