ययोरेव समै वित्तं ययोरेव समं बलम् । |
( पुनर्विचिन्त्य } केनाय राजा ममोपारि विकारितः, न जाने, भेदमुपग- ताद्राज्ञ सदा भेतव्यम् । यत -
मन्त्रिणा पृथिवीपालचित्तं विघटितं क्वचित् ।। |
अन्यच्च-
वज्त्रं च राजतेजश्च द्वयमेवातिभीषणम् । |
ततः संग्रामे मृत्युरेव वरम् । इदानीं तदाज्ञानुवर्तनमयुक्तम् । यत -
मृतः प्राप्नोति वा स्वर्गे शत्रु हत्वा सुखानि वा । |
युद्धकालश्चायम्-
यत्र युद्धे ध्रुवं मृत्युर्युद्धे जीवितसंशयः । |
एतचिन्तयित्वा सञ्जीवक आह-* भो मित्र ! कथमसौ मा जिघासुर्ज्ञातव्य है ? दमनको ब्रूते- यदासौ पिङ्गलक समुन्नतलागूल उन्नतचरणो विवृतास्यस्त्वा पश्यति तदा त्वमेव स्वविक्रम दर्शयिष्यमि । यत --
बलवानपि निस्तेजाः कस्य नाभिभवास्पदम् । |
किन्तु सर्वमेतत्सुगुप्तमनुष्ठातव्यम्, नो चेन त्वं नाहम् ' इत्युक्त्वा दमकः करटकसमीप गत १ करटकेनोक्तम्- कि निष्पन्नम् ' दमनकेनोक्तम्-5 निष्प- नोऽसावन्योन्यभेद ।' करटको ब्रूते-- कोत्र सन्देहः १ । यतः-