पृष्ठम्:हितोपदेशः.djvu/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ८४ ) [ हितोपदेशे- च्छतास्मद्देशे गम्यताम् ।' ततोऽस्मद्वचनमाकर्त्य सर्वे सकोपा बभूवु । तथा चोक्तम्- पयःपानं भुजङ्गानां केवलं विषवर्धनम् । उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ॥ ४ ॥ अन्यच्च- विद्वानेवोपदेष्टव्यो नाविद्वांस्तु कदाचन । वानरानुपदिश्याथ स्थानभ्रष्टा ययुः खगाः॥५॥ राजोवाच-* कथमेतत् ।' दीर्घमुखः कथयति- कथा १. अस्ति नर्मदातीरे पर्वतोपत्यकाया विशाल शाल्मली तरु । तत्र निर्मित- नीडक्रोडे पक्षिणो निवसन्ति सुखेन । अथैकदा वर्षासु नीलपटलैरावृतनभस्तले वारासारैर्महती वृष्टिर्बभूव । ततो वानरांश्च तरुतलेऽवस्थिताञ्छीताकुलान् कम्पमानानवलोक्य कृपया पक्षिभिरुक्तम्- ‘भोभो वानरा ! शृणुत- अस्माभिर्निर्मिता नीडाश्चञ्चुमात्राहतैस्तृणैः ।। हस्तपादादिसंयुक्ता यूयं किमिति सीथ ॥ ६॥ तन्छुत्वा वानरैर्जातामरालोचितम्-“अहो निर्वातनीडगर्भावस्थिताः सुखिन पक्षिणोऽस्मानिन्दन्ति, भवतु तावदृष्टेरुपशम ।' अनन्तर शान्ते पानीयवर्षे तैवानरैर्वृक्षमारुह्य सर्वे नीडा भग्नास्तेषामण्डानि चाधपातितानि । अतोऽह ब्रवीमि-* विद्वानेवोपदेष्टव्यः' इत्यादि ।।। | राजोवाच- ततस्तै किं कृतम् ।' बक. कथयति- * ततस्तैः पक्षिभि कोपादुक्तम् “ केनासौ राजहसो राजा कृत १ । ततो मयोपजातकोपेनोक्तम्-

  • अययुष्मदीयमयूरः केन राजा कृत, १ तन्छुत्वा ते सर्वे मा हन्तुमुद्यता ।

ततो मयापि स्वविक्रमो दर्शित. । यत - अन्यदा भूषणं पुंसां क्षमा लज्जेव योषिताम् । पराक्रमः परिभवे वैयात्यं सुरतोष्विव ॥ ७ ॥