पृष्ठम्:हितोपदेशः.djvu/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विग्रहः.] तदह तदाज्ञया ब्रवीमि, शृणु। यदेते चन्द्रसरोरक्षकाः शशकास्त्वया निःसा- रितास्तदनुचित कृतम्, यतो रक्षकास्ते शशका मदीयाः, अत एव मे शशाङ्क इति प्रसिद्धि ' एवमुक्तवति दूते यूथपतिर्भयादिदमाह- प्रणिधे इदमज्ञानतः कृतम्, पुनर्न गमिष्यामि ।' दूत उवाच-* यद्येव तदत्र सरसि कोपात्कम्पमान भगवन्त शशाङ्क प्रणम्य प्रसाद्य गन्छ ।' ततो रात्रौ यूथपति नीत्वा जले चञ्चल चन्द्रविम्व दर्शयित्वा यूथपनि प्रणाम कारित , उक्त च तेन- देव ! अज्ञाना- दनेनापराध कृत , तत क्षम्यताम्, नैव वारान्तर विधास्यते' इत्युक्त्वा तेन शशकेन स यूथपति, प्रस्थापित । अतोऽह ब्रवीमि * व्यपदेशेऽपि सिद्धिः स्यात्' इति ।। ततो मयोक्तम्- स एवास्मत्प्रभू राजहसो महाप्रतापोऽतिसमर्थ । त्रैलो- क्यस्यापि प्रभुत्व तत्र युज्यते ,कि पुना राज्यम्' इति । तदाह तैः पक्षिभिः

  • दुष्ट । कथमस्मभूमौ चरसि ' इत्यभिधाय राज्ञश्चित्रवर्णस्य समीप नीतः । ततो

राज्ञ पुरो मा प्रदर्थ्य तै प्रणम्योक्तम्-‘देव ! वध्यतामेष दुष्टो बकः, यदस्म- देशे चरनपि देवपादानविक्षिपति ।' राजाह- कोऽय कुत. समायात १ ते ऊचु -* हिरण्यगर्भनाम्नो राजहसस्यानुचर' कपुरद्वीपादागत ।' अथाह गृध्रेण मन्त्रिणा पृष्टः-* कस्तत्र मुख्य मन्त्री ' १ इति । मयोक्तम्- सर्वशास्त्रार्थ- पारग सर्वज्ञो नाम चक्रवाक. ।' गृध्रो ब्रूते ' युज्यते, स्वदेशजोऽसौ । यतः-- स्वदेशजं कुलाचारविशुद्धमथ वा शुचिम् । मन्त्रज्ञमव्यसनिनं व्याभचारविवजितम् ॥ १७ ॥ अधीतव्यवहारार्थ मलं ख्यातं विपश्चितम् ।। अर्थस्योत्पादकं चैव विदध्यान्मंत्रिणं नृपः ॥ १८ ॥ अत्रान्तरे शुकेनोक्तम्-' देव । कर्पुरद्वीपादयो लघुद्वीपा जम्बूद्वीपान्तर्गता एव, तत्रापि देवपादानामेवाधिपत्यम् ।' ततो राज्ञायुक्तम्-' एवमेव ।' यत - राजा मत्तः शिशुश्चैव प्रमादी धनगर्वितः ।। अप्राप्यमपि वाञ्छन्ति किं पुनर्लभ्यतेऽपि यत् ॥१९॥ ततो मयोक्तम्- यदि वचनमात्रेणैव देवपादानामधिपत्य सिद्धयति, तदा जम्बूद्वीपेऽप्यस्मत्प्रभोर्हिरण्यगर्भस्य स्वाम्यमस्ति ।' शुको ब्रूते- दाथमत्र