पृष्ठम्:हितोपदेशः.djvu/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विग्रहः.] (८९)

त्यज दुर्जनसंसर्ग भज साधुसमागमम् ।
कुरु पुण्यमहोरात्रं स्मरनित्यमनित्यताम् ॥ २४॥

कथा ५. देव । वर्तककथामपि कथयामि । एकः काको वृक्षशाखाया स्वपिति, वर्त्तकश्चावस्ताद्भूमौ निवसति । एकदा भगवतो गरडस्य यात्राप्रसङ्गेन सर्वे पक्षिण समुद्रतीर गता. । तत् काकेन सह वर्तकश्चलित । अथ गच्छतो गोपालस्य मस्तकस्थितदविभाण्डाद्वारवार तेन काकेन दधि खाद्यते । ततो यावदसौ दविभाण्ड भूमौ निवायोर्वमवलोकते तावत्तेन काकवर्तकौ दृष्टौ । तत- स्तेन खेदित काक पलायित । वर्तक स्वभावनिरपराधो मन्दगतिस्तेन प्राप्तो व्यापादित । अतोऽह ब्रवीमि-'न स्थातव्यं न गन्तव्यम्' इत्यादि । ततो मयोक्तम्-'भ्रात शुक । किमेव ब्रवीषि १ मा प्रति यथा श्रीमद्देव- म्तथा भवानपि । ' शुकेनोक्तम्-' अस्त्वेवम् । कितु- दुर्जनैरुच्यमानानि संमतानि प्रियाण्यपि । अकालकुसुमानीव भयं संजनयन्ति हि ॥ २५ ॥ दुर्जनत्व च भवतो वाक्यादेव ज्ञातम्, यदनयो पालयोर्विग्रहे भवद्वचन निदानम् । पश्य- प्रत्यक्षेऽपि कृते दोष मूर्खः सान्त्वेन तुष्यति । रथकारो निजां भार्या सजासं शिरसाकरोत् ॥२६॥' राज्ञोक्तम्- कथमेतत् १' शुक कथयति-- कथा ६. अस्ति श्रीनगरे मन्दमतिर्नाम रथकारः। स च स्वभार्यां बन्धकी जानाति, किन्तु जारेण सम स्वचक्षुषा नैकस्थाने पश्यति । ततोऽसौ रथकार' 'अहमन्यं ग्राम गच्छामि' इत्युक्त्वा चलितः । कियद्र गत्वा पुनरागत्य पर्यङ्क- तले स्वगृहे निभृत स्थित । अथ रथकारो नामान्तर गत इत्युपजातविश्वासया तध्वा स जार सध्याकाल एवाहूत । पश्चात्तेन सम तस्मिन् पर्यङ्के क्रीडमाना पर्यङ्कतलस्थितस्य भर्तु किचिदङ्गस्पर्शात्स्वामिन मायाविनमिति विज्ञाय विषण्णा- 7