विग्रहः.] किञ्च- न तथात्थाप्यते ग्रावा प्राणिभिर्दारुणा यथा। अल्पोपायान्महासिद्धिरेतन्मन्त्रफलं महत् ॥ ४५ ॥ कि तु । विग्रहमुपस्थित विलोक्य व्यवयिताम् । यत यथाकालकृतोद्योगात्कृषिः फलवती भवेत् । तद्वन्नीतिरियं देव चिरात्फलति रक्षणात् ।। ४६॥ अपर च- महतो दूरभीरुत्वमासन्ने शूरता गुणः । विपत्तौ च महाँल्लोके धीरतामनुगच्छति ॥ ४७ ॥ अन्यच्च- प्रत्यूहः सर्वसिद्धीनामुत्तापःप्रथमः किल । अतिशीतलमप्यम्भः किं भिनत्ति न भूभृतम् ॥४८॥ विशेषतश्च महाबलोऽसौ चित्रवर्णो राजा । यत'- बलिना सह योद्धव्यमिति नास्ति निदर्शनम् । ताद्धं हस्तिना सार्ध नराणां मृत्युमावहेत् ॥ ४९ ॥ अन्यच्च-- स मूर्खः कालमप्राप्य योऽपकर्तरि वर्तते । कलिबलवता सार्ध कीटपक्षोद्यमो यथा ॥५०॥ किं च- कौम संकोचमास्थाय प्रहारमपि मर्षयेत् । प्राप्तकाले तु नीतिज्ञ उत्तिष्ठेत्क्रूरसर्पवत् ॥५१॥ महत्यल्पेऽप्युपायज्ञः सममेव भवेत्क्षमः। समुन्मूलयितुं वृक्षांस्तृणानीव नदीरयः ॥ ५२ ॥ अतस्ततोऽप्याश्वास्य तावद्भियता यावद्दुर्ग, सज्जीक्रियते । यत एकः शतं योधयति प्राकारस्थो धनुर्धरः। शतं शतसहस्राणि तस्मार्ग विशिष्यते ॥ ५३ ॥
पृष्ठम्:हितोपदेशः.djvu/९३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति