पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१००२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

34 सव्याख्यायामद्वैतसिद्धौ - न्धित्वे मानाभावेन भासमाने सामान्य एवाज्ञानमवगतम्, वस्तुनः प्रतीतिप्रमाणकत्वात् । तथा च परचित्तस्थं यथा अनूद्यते, तथा ज्ञातं तथैवाज्ञातं चेति सिद्धम् । ननु यथा द्वेषस्येष्टत्वेऽपि द्विष्टस्य नेष्टत्वम्, ईश्वरस्य भ्रान्तिज्ञत्वेऽपि न भ्रमविषयज्ञत्वम्, अस्मदादनामीश्वरसार्वज्ञयज्ञानेऽपि न सर्व- ज्ञत्वम्, एवमज्ञातज्ञानाभावेऽप्यज्ञानज्ञानमिति – चेन्न; दृष्टा- न्तासंप्रतिपत्तेः । तथाहि — इच्छा तावज्ज्ञानसमानविषया, ज्ञानं चावच्छेदकतया द्विष्टमपि विषयीकरोतीतीच्छाया अप्य- वच्छेदकतया तद्विषयत्वात् । नहीच्छा इष्टतावच्छेदकाविषया भवति । एतावानेव विशेषः । किंचित्साध्यतया विषयीकरोति, मानाभावेनेति । विशेषप्रमानिवर्त्यत्वानुपपत्तिस्तु न मानम् ; सामान्यज्ञा- नस्यैव विशेषाज्ञानषीहेतुत्ववद्विशेषज्ञानस्यैव सामान्याज्ञान' नाशकत्वसंभ- वात् । सामान्यावच्छिन्नतथा विशेषाज्ञानावगाहिबुद्धेः प्रमात्वानुरोधेन सा- मान्यमवच्छेदकमवश्यं वाच्यम् ; तथाच विशेषस्य विषयतावच्छेदकत्वेना- क्लृप्तत्वात्सामान्यमेव तथा कल्प्यते, न त्वज्ञानं प्रति सामान्यमाश्रयताव- च्छेदकं विशेषस्तु विषयतावच्छेदक इति । एवं च विशेषावच्छिन्न- विषयताकाज्ञानस्याप्रसिद्धया सामान्यावच्छिन्नविषयताकाज्ञानं प्रत्येव विशेषप्रमाया नाशकत्वसंभवान्नोक्तानुपपत्तिः । किं च सामान्या- वाच्छन्नतया विशेषाज्ञानस्यानुभवे धूमाद्यज्ञानमपि वन्ह्याद्यवच्छिन्न- त्वेनानुभ्येत । न हि सामान्यविशेषभावो व्यापकव्याप्यभावान्य इति भावः । अवच्छेदकतया द्वेषविशेषणतया | तद्विषयत्वात् विशिष्टविषयकत्वात् । किञ्चित्साध्यतया द्वेषादिकमुद्देश्यतया । अवच्छेदकतया उद्देश्यतावच्छेदकतया । विषयीकरोतीत्यत्र 3 1 ज्ञानं. 2 सामान्यज्ञान- क. ग. 3 नोक्तान्यथानुपपत्तिः- क. [प्रथमः