पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [ प्रथमः 42 - च्छिन्न चैतन्यविषया वा वृत्तिरज्ञानविषयीभूतकेवलचिदविषय- त्वादज्ञानविरोधिनी न स्यादिति – वाच्यम्; 'दण्डी चैत्र' इति वृत्त्या चैत्राज्ञानानभिभवापातात् । घटाका काशाज्ञानस्य महत्वाज्ञाने पर्यवसानम् । अत एवाकाशो ज्ञात इति प्रतीतिः । न च श्रवणादिजन्यैव वृत्तिरज्ञान- विरोधिनी; भ्रमकालीनापरोक्षज्ञानानधिकविषयज्ञानेन कारणा- न्तरजन्येनाप्यज्ञाननिवृत्ता वातिप्रसङ्गात्, अनधिकविषयत्वे श्रव- णादिवैयर्थ्यात्, सत्यत्वापाताच्चेति – चेन्न; यावन्ति ज्ञानानि तावन्त्यज्ञानानीति मतेऽज्ञान विशेष : एकाज्ञानपक्षेऽवस्थाविशेषः शक्तिविशेषो वा अविद्यागतो विशिष्टगोचरवृत्या निवर्तत एव । प्रपञ्चनिदानभूतं तत्त्वमस्यादिवाक्यजन्याखण्डार्थगोचरवृत्तिनि- वर्त्यमज्ञानं परमवशिष्यते; भेदभ्रमस्यानुभूयमानत्वात् । यथा अयमिति ज्ञानात्तत्राज्ञाने निवृत्तेऽपि सोऽयमित्यभेदगोचरवृत्ति- निवर्त्याज्ञानमवशिष्यते । तथा च विषयकृतविशेषाभावेऽपि - शेषः । न स्यत् – न भवति । अतिप्रसङ्गादिति । शुक्तौ रूप्यं नास्तीति बाधकालऽपि भ्रमोऽनुवर्तत, कारण विशेषजन्येनेोक्तबाधेन पश्चान्निवर्तेतेति प्रसङ्गादित्यर्थः । सत्यत्वापातात् अधिष्ठानप्रमासामा न्यनिवर्त्यत्वाभावेन प्रपञ्चस्य सत्यत्वापातात् । विशिष्टगोचरवृत्त्या अहमित्याकारकवृत्त्या || 2 ननु – सोऽयमिति वाक्यजज्ञानं " तत्तोपहिते इदन्त्वोपहिततादा- त्म्यविषयकत्वेन तादृशविषयकाज्ञाननिवर्तकम्, अयमिति ज्ञानं तु नोक्तविषयकम् ; अतो न तथेत्याशङ्कयाखण्ड र्थत्वेनोक्तवाक्यस्वीकर्तृ- मतेऽयमिति ज्ञानसमानविषयकमेव सोऽयमिति वाक्यजज्ञानमित्याशये- नाह — तथा चेति । न चोक्तमतमेवाप्रामाणिकमिति---वाच्यम् ;

- 1 अज्ञानानिवृत्ता. 22 वाक्यजन्यं ज्ञानं - ग.