पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

50 सव्याख्या या मतासेद्धौ [प्रथर्मः गृह्यते । किंचान्तःकरणाविशिष्टे प्रत्यभिज्ञाननिषेधो नाभिज्ञानिषे- धोऽपीति न विरोध: ; सुषुप्ताव भिज्ञाया एवोक्तत्वात् । न च – यद्यहमर्थो न परामृश्येत, तर्हि 'एतावन्तं कालं सुप्तोऽहमन्यो वे' ति संशयः स्यार्, न त्वहमेवेति निश्चय इति वाच्यम् ; सुषुप्तिकाला- नुभूतात्मैक्याभ्यासादिति गृहाण | यथा पूर्वदिनानुभूतदेवदत्ता- दभिन्नतयानुभृते चैत्रे सोऽयं न वेति न संशयः, किंतु स एवेति निश्चयः । किंच निश्चये सति संशया भावनियमः, न तु निश्चया- भावे संशयनियमः । तदुक्तम्- 'आरोपे सति निमित्तानुसरणम्, तु निमित्तमस्तीत्यारोप ' इति । न चैतावन्तं कालमहं स्वप्नं पश्य- नासं जाग्रदासमित्यत्रेवाहमस्त्राप्समित्यत्राप्यहमंशे परामर्शत्वानु- भवात्कथं तत्रापरामर्शत्वमिति वाच्यम्; परामृश्यमानात्मैक्या- रोपात्तद्भानांशे परामर्शत्वाभिमानात् । न चापरामर्शे परामर्शत्वा- रोपो न दृष्ट इति वाच्यम्; तद्भिन्ने तत्त्वेनानुभूयमाने परामर्श- शङ्कय संसारावस्थायां मनसोऽत्यन्तानुच्छेदेन प्रत्यभिज्ञोपपत्तिरिति यत्समाहितं तत्प्रतिपादकोत्तर ग्रन्थरूपाववरणविरोध इति वाच्यम्; अन्तःकरणपदस्य पूर्वग्रन्थे उपाधिमात्र परत्वेप्यन्तःकरणमात्रांश एवो- क्तानुपपत्तेस्तच्छङ्कासमाधानयारौचित्यात् | अभिज्ञाया इति । जागरेऽपि स्मृतेरेवोक्तत्वादित्यपि बोध्यम् । नियम इति । कादाचित्कसंशयस्तु स्यादेव; अहमर्थक्षणिकत्ववादिविप्रतिपत्त्यादिना तत्संभवादिति भावः । तद्भिन्ने स्मर्यमाणभिन्ने । तत्त्वेन स्मर्यमाणाभेदेन अनुभूय- मान इति । अनुभवे इति शेषः । परामर्शत्वेति । स्मृतित्वेत्यर्थः । तथाचानुनूयमानत्वविशिष्टे स्मर्यमाणाभेदारोपस्थले अनुभवे स्मृतित्व- मारोप्य तद्वद्विषयस्याभेदारोप इति भावः । स्वरूपतो विषयतश्चा- 1 स्मर्यमाणभेदेन–ग.