पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैत सिद्धौ समव्याप्ततया परस्परप्रकाशेन परस्परपरामर्शापादनस्याव्यधि- करणत्वात् । न च तवापि 'आत्मेत्यभिमन्यमान आस' मिति परामर्शापत्तिः; अहंकारस्य तत्र तन्त्रतया तदभावे तत्रा- पादयितुमशक्यत्वात् । यत्तु - सुषुप्तावहमर्थो भासत एव' 'न किंचिदहमवेदिष' मित्यज्ञानपरामर्शस्यात्माद्यज्ञानादन्यदि- वाहमर्थाज्ञानादन्यदेवाज्ञानं विषयः; अन्यथा विरोधादिति, 52 [प्रथमः y - किंतु प्रकाशयोः – अहमर्थाभिमानस्याहमर्थप्रकाशस्य चेत्यर्थ । परस्पर- प्रकाशेन – अहमर्थतदभिमानयोरन्यतरप्रकाशेन । अहमर्थाभिमानस्याह- माकारवृत्तिरूपत्वेऽपीतरवृत्तिवन्न प्रमाणव्यापारादिसापेक्षत्वम्, मनःस्थूलावस्थोपहितचिद्र गहमर्थमात्र सापेक्षत्वम् । एवमहमर्थप्रकाशस्या- प्यहमर्थावच्छिन्नसाक्षिरूपत्वादहमर्थमात्रसापेक्षत्वम् । एवं चोक्ताभि- मानस्य साक्षिमात्रभास्यत्वस्य त्वयापि स्वीकारात्सुषुप्तौ तत्प्रकाशावश्य- कत्वेन पश्चात्परामर्शापादनं युक्तमेवेति भावः । नन्वहमर्थस्याणुजीव- रूपत्वात्सुषुप्तावपि तत्सत्त्वादहमा कारवृत्तौ न तन्मात्रसापेक्षता; किंतु तस्या मनःपरिणामत्वेन मनआदिसापेक्षता, तथाच सुषुप्तौ मनोलयेन स्वमनोयोग रूपकारणाभावेन वा न सेति न तत्परामर्शापादनं युक्तमिति – चेन्न; अहमर्थस्याहमाकारवृत्त्यवच्छिन्नसाक्षिणा तदनवच्छिन्नसाक्षिणा परामर्शान्यथानुपपत्त्या वा सुषुप्तौ सिद्धिः । नाद्य; त्वयाप्यनङ्गी- कारात् । नेतरौ; परामर्शस्य साक्षिमात्रांश एवं व्यवस्थापितत्वात्, सुषुप्तावहमर्थस्य त्वयाप्यभ्युपगतसाक्षिस्वरूपादन्यस्याप्रामाणिकत्वात्, अहमाकारवृत्तिं विनाप्यहमर्थस्य साक्षिवेद्यत्वे तस्यां त्वन्मते मानाभा- वात्, सुषुप्तौ तदभावस्य कारणाभावप्रयुक्तत्वोक्तयसङ्गतेश्च । तन्त्र- तयेति । आत्मेत्यभिमानोऽपि ह्यहमाकारवृत्तिरेव केवलात्मनो वेदा- न्तैकवेद्यत्वेनाभिमानासंभवात् । आत्माद्यज्ञानादिति । यथा तव चिद्रूपात्मांशे नाज्ञानम् ; तस्य भासमानत्वात्, किंतु पूर्णा