56 सव्याख्यायामद्वैतसिद्धौ [प्रथमः ननु – 'योऽहं सुप्तः सोऽहं जागर्मि' 'योऽहं पूर्वेरकार्षं सोऽह मद्य करोमी ति प्रत्यभिज्ञानुपपत्तिः; अहमर्थस्य भेदात्, कृत- हान्यकृताभ्यागमप्रसङ्गश्च कर्तुर्भोक्तुश्वाहमर्थस्य भिन्नत्वात्,
अभिने चैतन्ये कर्तृत्वाद्यभावात् तदारोपस्याप्यभावात्, देहादावतिप्रसङ्गाचेति – चेन्न; सुषुप्तौ कारणात्मना स्थित- स्यैवोत्पत्यङ्गीकारेण सर्वोपपत्तेः । नच – 'अथ हैतत्पुरुषः स्वपि- ती' त्यारभ्य 'गृहीतं चक्षुर्गृहीतं श्रोत्रं गृहीतं मन' इत्यादि- श्रुतौ मनआदीनामेवोपरमोक्तेर्नाहंकारोपरम इति वाच्यम्; मनस उपरमे तेनैवाहंकारोपरमस्यापि प्राप्तेः । अहंकारी ह्यनुभवा- मीत्यात्मानुबन्ध्यनुभवस्याहं कर्तेत्यचिदनुबन्धिकर्तुत्वादेवाश्रयः मंशस्य त्ववर्जनीयेच्छाविषयत्वम्, परस्यायं ग्रामो मे भवत्वित्यादौ परसंबन्धांशस्येवेति भावः । न च – चिन्मात्रं निर्दुःखमास्त्वितीच्छा- पत्तिरिति -- वाच्यम् ; चिन्मात्रत्वेनाज्ञानात् । निर्दुःखानुभवोऽस्त्वि- तीच्छा तु जायत ध्येयम् || कर्तृत्वाद्यभावादिति । तन्मतेऽहंकारस्यैव कर्तृत्वादिस्वीकारा दिति शेषः । तदारोपस्याप्यभावादिति । अहं करोमीत्यादिप्रतीत्या अहंकार एव कर्तृत्वादिसिद्ध्या मानाभावेन चैतन्ये कर्तृत्वाद्यारोप- स्याप्यभावादित्यर्थः । स्थितस्येति । अहंकारस्वरूपस्य तत्तत्परिणामे - प्यत्यन्तोच्छेदाभावेन तत्परिणामावस्थानुगतत्वादैक्यप्रत्यभिज्ञादिकं यु- ज्यत इति भावः । आत्मानुबन्धीति । आत्माभिन्नेत्यर्थः । यद्यप्यह मर्थस्य चिदघटितत्वेऽपि घटः स्फुरतीत्यादाविवानुभवाश्रयत्वं संभवति, तथाप्यहमिति प्रत्ययेऽवच्छिन्नानुभव रूपेणाहमर्थभानात्, अवच्छिन्नानु- भवम्य चानवच्छिन्नात्मानुगतत्वात् आत्मानुबन्धित्वेनात्मानुबन्ध्यनु- भवावच्छेदकमनसस्तादृशानुभवाश्रयत्वेनोक्तिरिति बोध्यम् । अचिदनु- , ·