58 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः - त्वात्मैकत्वेन प्रत्यक्षसिद्धस्य पृथगुपदेशो भेदार्थ इति वाच्यम्; अहमर्थादन्यस्यात्मनो भूमाख्य ब्रह्मभिन्नत्वेन प्रत्यक्षासिद्धत्वा- तयोरप्युपदेशो भेदार्थः, अहमर्थस्य तु ब्रह्मभिन्नत्वेन प्रत्यक्ष- सिद्धत्वात्तयोरुपदेश ऐक्यार्थ एव किं न स्यादिति – चेन्न; अहंकाराद्भिभात्मनो भूमरूपब्रह्मभिन्नत्वस्य प्रत्यक्षासिद्धत्वेऽपि तदभिन्नत्वस्यापि तदसिद्धूतया उभयोः सार्वात्म्योपदेशानुपपत्ति- सहकारेणास्याः श्रुतेस्तयोरभेदपरत्वमुचितम्, प्रकृते चाभेदपरत्वे विरोध: ; जडाजडयोरैक्यायोगात् । नच – त्वन्मते भूमा मध्यासे वा सामानाधिकरण्यात् भूता'त्मान्यन्नास्तीत्येवंरूपम्, भूतात्मा 'नौ सर्वात्मका वित्येवंरूपं वा । तत्र द्वयोरधिष्ठानत्वे मानाभावादकस्यैवानादि- साधारणसव दृश्यानुगत सच्चिद्रूपतया प्रतीयमानत्वसंभवाच्च पृथगुपदिश्य मानयोरत्यन्ताभेदं विना उक्तसार्वात्म्यमनुपपन्नमिति प्रतिसन्धानद्वारा- त्यन्ताभेदे द्वयोः सार्वात्म्योपदेशतात्पर्य मिति भावः । पृथगुपदेशो भेदार्थ इति । परिच्छिन्नस्याहंकारस्य स्वरूपेण न सार्वात्म्यम्, किं तु सर्वात्मक चिदात्मघटितत्वेनेत्येतज्ज्ञापयितुं 'अथात आत्मादेश' इत्या- दिकमुक्तम् । न चैवं 'अथातोऽहंकारे' त्यादिकम नुक्त्वा 'अथात आत्मे ' त्याद्येवोच्यताम्, तावतैव ब्रह्मात्मनोरैक्यसंभवादिति वाच्यम् ; आत्म- पदस्य लोकेऽहमर्थ एव प्रयोगात्, शुद्धात्मनः सार्वात्म्यबोधनासंभवात् । अहंकारादेशबाक्योत्तरमात्मादेशवाक्योक्तौ तु पौनरुक्तयप्रतिसन्धान- द्वारात्मपदस्य शुद्धात्मपरत्वनिश्चयेन शुद्धात्मनः सार्वात्म्ये उक्ते तद्घटि- तत्वेनाहंकारस्य सार्वात्म्योक्तिरिति निश्चयसंभवः, तथा चोक्तरीत्या- हंकारातिरिक्तात्मन्यात्मपदतात्पर्यनिर्णायकत्वेन पृथगुपदेशो भेदार्थः इति भावः । जडाजडयोः अहमर्थब्रह्मणोः । ऐक्यायोगात् अत्यन्ता- 2 भूमा-ग.
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०२६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति