पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अहमर्थानात्मत्वोपपत्तिः परिच्छेदः] 65 न च त्वन्मते प्रत्यगर्थरूपस्यात्मन एवापरोक्षैकरसत्वेन तदैक्यो - क्तथैवापरोक्ष्यसिद्धया अहंकारेऽविद्यमान सार्वात्म्योक्तययोग इति वाच्यम्; आत्मसंबन्धेनैवाहंकारोऽप्यपरोक्ष इत्यात्मैक्यादेवाप- रोक्ष्यं यद्यपि सिद्धम्, तथाप्यहंकारे आपरोक्ष्यस्य सुप्रसिद्धत्वा- दहंकारोक्तिर्नायुक्ता । यत्तु भूमा नारायणाख्यः स्यात्स एवाहंकृतिः स्मृतः । जीवस्थस्त्वनिरुद्धो यः सोऽहंकार इतीरितः || अणुरूपोऽपि भगवान्वासुदेवः परो विभुः । आत्मेत्युक्तः स च व्यापी इत्यादिस्मृत्या श्रुतेः सार्वात्म्यं नार्थ:; किंतु सर्वगतत्वम्- इति । तन्न; श्रुतिविरोधेन स्मृतेरेव सार्वात्म्यपरत्वम्, न तु स्मृत्या श्रुतेरन्यथानयनम् । न च -मोक्षधर्मे– 'अनिरुद्धो हि लोकेषु महानात्मा परात्परः । योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् || मूर्तसं योगिरूपविभुपरत्वे विभुपदवैयर्थ्यात् व्यापकत्वस्य सङ्कोचका भावाच | तादात्म्येनान्तरङ्ग संबन्धेन व्यापकत्वसंभवे बहिरङ्गेण स्वीय ज्ञानविषयत्वादिसंबन्धेन तदुक्तययोगात् । यद्यपि सिद्धान्ते न सर्वमूर्त- संयोगित्वं भून्नि, तथाप्यपरिच्छिन्नत्वादियक्तमेव विभुपदार्थ: । अणु- रूपोऽपि । उपास्यरूपेण परिच्छिन्नोऽपि ज्ञेयरूपेणापरिच्छिन्न इत्यर्थः । जीवस्थः अविद्याप्रतिबिम्ब रूपजीवाश्रितः, अनिरुद्ध अविद्याकाम- कर्मभिरिहामुत्रसञ्चारित्वेन न निरुद्धः । सोऽहंकार इति । तथाच तदुपलक्षितापरोक्षचिदभेदतात्पर्येण स एवाहंकृतिरित्युक्तम् । एवं च सर्वजीव प्रत्यक् चैतन्यरूपशुद्धात्मैव भूमेत्याह । अणुरूप इत्यादि । वासुदेवः वसति सर्वभूतेषु दीव्यति चेति वासुदेव इत्यर्थः 1 A. VOL. III. 5 ५