पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

68 सभ्याख्यायामद्वैतसिद्धौ [प्रथमः संविदोऽपि क्षेत्रत्वापात्तः । न च – बुद्धिशब्दस्य नानार्थत्वम्, न त्वहंकारस्यात्मातिरिक्तार्थकत्वमिति - वाच्यम्; 'दम्भाहं - कारसंयुक्ता' इत्यादौ देहेऽहंबुद्धौ गर्ने च प्रयोगेण 'गर्वोऽ- भिमानोऽहंकार' इत्यभिधानेन चाहमर्थवाचित्वनियमाभावात्, तथाचात्मवाच्य हंशब्दोऽस्मच्छब्दसिद्धः । अहंकारशब्दोऽनात्म- वाची । तत्पर्यायस्त्वहंशब्दो मान्ताव्ययमिति चेन; मान्त- दान्तत्व भेदेनार्थ भेदकल्पनमयुक्तम् । सर्वेषामेव तेषामहमिति प्रतीयमानाहंकार विषयत्वमेव; पर्यायतयैव प्रयोगदर्शनात् । अहंकारातिरिक्तात्मनि प्रयोगस्तु लक्षणया; मान्तदान्त त्वेनानि- र्धारिताहंशब्दस्याहंकारे प्रयोगदर्शनस्य नियामकत्वात् । यथा- प्रतीयमानेति । चिदचिद्गन्थिरूपेति शेषः । यथा ' अहंकारश्चाहंकर्तव्यं चे 'ति श्रुतौ 'महाभूतान्यहंकार' इति स्मृतौ चाहंकारपदस्य चिद- चिद्गन्थिविषयत्वम् । तथा 'दम्भाहंकारसंयुक्ता' इत्यादावव्यहंकारगते धनित्वाभिजातत्वादिरूपोत्कर्षे अहंकाराभेद विवक्षया तद्विषयत्वम् । उक्त प्रन्थिश्चाहामेति शब्देन प्रतीयत इति मान्तदान्तयोरथभेदे माना- भावः । अत एवाहन्ताऽहंभाव इत्यादिना उक्तग्रन्थिभावः प्रतीयते । न हि दान्तशब्दादहंभावादिपदं सिध्यति, अत एवाविद्याऽहंमतिरित्युक्त- ग्रन्थिर्बुद्धेः पर्याय इति भावः । नन्वहंकाराहंपदयोरुक्तग्रन्थौ प्रयोगो नैकरूपेण बोधक इति भिन्नार्थकत्वमास्ताम्, तत्राह –पर्यायतयैवेति । एकरूपेण बोधकेत्यर्थः । प्रयोगस्तु अहं ब्रह्मास्मीत्यादिप्रयोगस्तु । प्रयोग दर्शनस्य लौकिकवैदिक भूरिप्रयोगदर्शनस्य । नियामकत्वादिति । शुद्धात्मलक्षणायामिति शेषः । अहंकारशब्दोऽनात्मवाचीति वदतस्तव भेद-क. ग.