पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अहमर्थानात्मत्वोपपत्तिः 'अनिरुद्धो हि लोकेषु महानात्मा परात्परः । योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् ॥ इति । 'सोऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः' । इत्यत्र लक्षणयाऽहंकारशब्द आत्मनीति । यत्तु - अहमर्थे - आत्मानात्मधर्मदर्शनमसिद्धम् ; कर्तृत्वादेरात्मधर्मत्वादिति, तत्र कर्तृत्वादेरनात्मधर्मत्वं यथा तथा वक्ष्यामः । ननु – अनात्म परिच्छेदः] 69 मतेऽप्यहंकारशब्द आत्मनि लाक्षणिकः, तथाच तद्वदहंशब्दोऽप्यहंकार- वाची मान्तदान्तसाधारण आत्मनि लाक्षणिक इत्याह – यथेति ।। - नन्वहंकाराहं पदयोरुक्त ग्रन्थिवाचित्वे परकीयोक्तग्रन्थावपि तत्प्र- योगापत्तिरिति-- चेन्न; त्वन्मतेऽप्यहंकारमान्ताहंपदयो परकीये क्षेत्रे प्रयोगापत्तेः । अथ जातिविशेषपुरस्कारेण परकीय क्षेत्रेऽहंकारोस्ति अहमस्मीति प्रयोग इष्ट एवति ब्रूषे, तर्हि ममापीष्ट एव । एतावांस्तु भेदः --- तव शक्तया मम तु लक्षणया | मम ह्युच्चारथितृतावच्छेदक- वत्त्वेनाहंकारदान्तमान्ताहंपदानां स्वोच्चारयितरि शक्तता'. तव दान्ताहं- पदस्यैवेति । एवं च मम शुद्धात्मनोऽनुच्चारयितृत्वेन लक्ष्यत्वम् 'मह- तत्त्वं भगवतो वीक्षणम् तस्माद्विकुर्वाणात्तदवस्थमायापरिणामः सिसृ- क्षारूपोऽहंकारस्त्रिगुणात्मकमायापरिणामत्वात्सात्त्विकादिरूपेण त्रिविधः । पूर्वपूर्वपरिणामावस्थमायाया एवोत्तरोत्तरपरिणामं प्रति परिणामित्वेना- हंकारस्य सात्त्विकाद्यंशेन मनआदिसात्त्विकादिपरिणामसंभवात्सात्त्वि- कादेर्मनआदिहेतुत्वोक्तिः | तस्य च क्रियाशक्तित्वेनाहंकारपदवाच्यो- च्चारयितृसाम्यादहंकारपदेन गौण्या वृत्त्या बोध्यते इत्याशयेन क्रिया- शक्तिरित्युक्तमिति बोध्यम् ॥ 1 शक्यता - क. ग. ,