पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैत सिद्धी [प्रथमैः स दुःखी स सुखी चैव स पात्रं बन्धमोक्षयोः ॥ इत्यादौ मोक्षान्वयोक्तेश्चैताः श्रुतयः प्रमाणम् विशिष्टवाचक- स्यैवाहंपदस्य लक्षणया निष्कृष्टाहंकारचैतन्ये प्रयोगात् । लक्षणा- बीजभूताऽनुपपत्तिरुक्ता । एतेन - 'मामेव ये प्रपद्यन्त' इत्यादि- स्मृतयोऽपि व्याख्याताः । अत एव 'तद्योऽहं सोऽसा' वित्या- दावपि लक्षणाऽऽश्रयणीया; विशिष्टवाचकत्वेन क्लृप्तस्य विशेष्ये लक्षणाया आवश्यकत्वात् || इत्यद्वैतसिद्धावहमर्थस्यानात्मत्वोपपत्तिः. 78 मन' इत्यादिप्रश्नोपनिषत् | इत्यादाविति । 'अन्नमशितं त्रेधा विधीयते योऽणिष्ठस्तन्मन: आपः पीतास्त्रेधा विधीयन्ते योऽणिष्ठः स प्राण इत्यन्तोऽयं छान्दोग्यश्रुतिः । विशिष्टवाचकस्य उच्चारयितृ- तावच्छेदक विशिष्टवाचकस्य | प्राणादिस्रष्टार ब्रह्मैक्येन ज्ञेयात्मनि चाहं - पदोच्चारयितृत्वाभावाल्लक्षणाऽऽवश्यकी । न हि त्वन्मतेऽपि प्राणादिसृष्टेः पूर्वमुच्चारयितृ ब्रह्मेति सम्प्रतिपन्नम् । यो यदा स्वोच्चारायता तमेव सुच्चारयितृतावच्छेदकत्वोपलक्षितचैत्रत्वादिना अहंपदं बोधयति शक्तयेति भावः । एतेन वाच्यार्थान्वयासंभवे लक्षणावश्यकत्वेन व्याख्याता इति । मां चिन्मात्रमेव प्रपद्यन्ते तत्त्वमस्यादिश्रुत्या साक्षात्कुर्वन्तीत्या- द्यर्थकत्वेनेत्यादिः ॥ तर्कैः सारस्वतै रत्नैश्चन्द्रिकाचन्द्रभूषणैः । दुरन्तध्वान्तनाशायाहमर्थस्य नात्मता || इत्यद्वैत सिद्धिव्याख्यायां गुरुचन्द्रिकायामहमर्थस्यानात्मत्वोपपत्तिः. 1 चोञ्चारयिता - ग.