पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [प्रथमः तयोर्भेदधीदशायां प्रत्येकं 'रक्तं कुसुमं ' ' स्फटिको रक्त' इति वत् 'मनः कर्तृ' 'चैतन्यं कत्रिं 'ति प्रतीत्यापत्तिरिति-

तन्त्र ; तादात्म्य , वाच्यम्; तादात्म्यारोपविरोधिभेदग्रहस्यैव तत्प्रयोजकत्वात् ; प्रकृते च तद्भावात् । यत्त्वभेद ग्रहदशायामपि 'अयं भीषणः सर्पो भीषणः' 'अहं गौर: शरीरं गौर ' मितिवत् 'मनः कर्तृ' 'चैतन्यं कर्त्रीि 'ति प्रतीतिः स्यादिति, तन ग्रहस्यैव प्रतिबन्धकस्य सत्वेन दृष्टान्तस्यैवासंप्रतिपत्तेः । यदपि सोपाधिकत्वे तन्त्रत्वेनाधिष्ठान समसत्ताकत्वमुपाधेस्त- द्धर्मस्य वा अध्यस्यमानापेक्षयाधिकसत्ताकत्वं वा तयोरिति पक्षद्वयमुद्भाव्य प्रकृते तद्द्यं न संभवतीति दूषणाभि- भावः । तादात्म्यारोपविरोधीति । मम मनः पाठे प्रवर्तन तु कार्यान्तर इति घीर्जायत एव । अहं करोमीत्यत्र चिति कर्तृत्वमपि प्रतीयते । तथाच तादात्म्यारोपाभाव एव फलत आपादनीयः, तदा- पादनं च न संभवति । तादात्म्येन मनोध्यासे हि तत्पूर्वं विद्यमानों भेदग्रहः प्रतिबन्धको वाच्यः; स च नास्त्येव, भेदधीमात्रस्य मनो- ध्यासव्याप्यत्वादिति भावः । तादात्म्यग्रहस्येति । 'अयं भीषणः, सर्पो भीषण' इति पृथगुल्लेखस्यात्यन्तिकभेदग्रहव्याप्यत्वात्तादृशग्रहस्य च तादात्म्यधीप्रतिबध्यत्वात्तादात्म्यारोपकाले न तादृशग्रह इति भावः । वस्तुतस्तु भीषणत्वादिना नात्यन्तिकभेदग्रहः, तेन रूपेण तादात्म्या- ध्यासात् ; शरीरत्वमनस्त्वादिना तु तादात्म्यं नाध्यम्यते, किंतु मनुष्यत्वगौरत्वकर्तृत्वादिनेति । 'अहं गौर:' 'शरीरं गौरं' 'मनः कर्तृ' 'चैतन्यं कर्त्रि' ति व्यवहार आत्यन्तिकभेदघीव्याप्योऽपीष्ट एवेति ध्येयम् । यदपि सोपाधिकत्व इत्यादि इति पक्षद्वयं सोपाधिकत्वे तन्त्रत्वेनोद्भाव्य प्रकृते तत्पक्षद्वयं न संभवतीति यदपि दूषणाभिधान- 80