पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] धानम्, तदनुक्तोपालम्भनम् यदन्वयव्यतिरेकानुविधायितया यत्प्रतीयते तदपेक्षया अधिकसत्ताकतद्धर्माश्रयान्तराभावस्यैव सोपाधिकत्वे तन्त्रत्वात् । नचैवं क्षीरसंपृक्तनीरैक्याभ्यास- कर्तृत्वाध्यासोपपत्तिः A. VOL. III. , 1 - मित्यर्थः । यदन्वयव्यतिरेकानुविधायितयेति । यस्योपाधिरूपस्य धर्मिण: सन्निधिकाल एवेत्यर्थः । यत्प्रतीयते तदीयो यो धर्मः प्रतीयते । तदपेक्षया तद्धर्म्यपेक्षया । अधिकसत्ताकतद्धर्माश्रया- न्तराभावस्य — अधिकसत्ताकं तद्धर्मस्य यदाश्रयान्तरं तदभावस्य | सोपाधिकत्व इति । यद्यपि तद्धर्मसोपाधिकत्व इति वक्तुमुचितम्, तथापि नात्मनि कर्तृत्वाद्यन्तरमुत्पद्यते; किंतु कर्तृत्वादिविशिष्टस्य मनसः आत्मन्यारोपाद्विशेषणीभूत कर्तृत्वादेर्मनस्यात्मनि च संबन्धौ स्वीक्रियेते । तथा च कर्तृत्वादिसंबन्ध आत्मन्यौपाधिको न तु कर्तृ- तादिरित्यस्यापि पक्षान्तरस्य विवरणायुक्तस्य सङ्ग्रहाय सामान्यतः सोपाघिकत्वे इत्युक्तम् । कर्तृत्वाद्यन्तरस्यात्मनि स्वीकार एव युक्तः ; अन्यथा लौहित्याद्यन्तरस्यापि स्फटिकादावस्वीकारः स्यात् । स्फटिक- लौहित्यस्य प्रतिबिम्बत्ववादिभिर्वाचस्पत्यादिभिरेव हि स्फटिके लौहि- त्यान्तरं न स्वीक्रियते । पञ्चपादीकृद्भिस्तु तत्र तत्वीक्रियत एव । अथ – लौहित्याद्याश्रयजपादौ चक्षुरसन्निकर्षस्थले म्फटिकादौ लौहि- त्यस्यानुत्पादे तदापरोक्ष्यं न स्यादिति – चेत्, तथापि यत्रोक्तजपादौ चक्षुःसन्निकर्षस्तत्र स्फटिकादौ लौहित्यायुत्पादो न स्यात् । अथ --- स्फटिको लोहित इति प्रतीतौ स्फटिकावच्छिन्नचिति लौहित्यभाना। लौहित्यं तत्संबन्धो वा जायते इत्यत्र विनिगमकाभावात् संबन्धस्येव लौहित्यस्यापि स्वरूपसंबन्धसंभवात्, सर्वत्र लौहित्यं तत्संबन्धश्च - - 1 भिधान इत्यर्थ:-

-ग.

81 6 १