पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [ प्रथम: निबन्धनक्षीरधर्मप्रतीतिः सोपाधिकी स्यात् ; तस्याः सोपाधि- कत्वे इष्टापत्तेः ॥ - ननु – बुद्धिगतं कर्तृत्वं किमहमर्थे, अहमर्थगतं वात्मन्य- ध्यस्यते । आद्ये आरोपितस्याप्यनर्थस्यात्मन्यभावे तस्य बन्ध- मोक्षानधिकरणत्वापत्तिः ; द्वितीयेऽनध्यासेनैव 'अहं कर्ते ' ति प्रतीत्युपपत्तौ किमध्यासेनेति – चेन्न; अहंकारस्तु चिदचित्र- न्थिरूपतया व्यंशः । तत्राचिदंशे बुद्धौ कर्तृत्वसवेऽपि तद्विशि- ष्टाया बुद्धेश्वित्यैक्याध्यासं विना अहं कर्तेति प्रतीतेरयोगेना- ध्यासस्यावश्यकत्वात् । एतेन – आरोपितकर्तृत्वस्याप्यभावे आत्मनो बन्धमोक्षानधिकरणत्वं स्यादिति – निरस्तम् | न च- ' कर्ता शास्त्रार्थववा' दित्यधिकरणे त्वयापि साङ्ख्यरीत्या बुद्धेः कर्तृत्वे प्राप्ते, जीवस्यैवेति सिद्धान्तितत्वेन विरोध: ? न चा- विवेकनिबन्धनं जीवनिष्ठत्वम् ; अविवेकस्य साङ्ख्यमतेऽपि जायत इति --- वाच्यम्; तर्हि प्रकृते कर्तृत्वादिद्वयं युक्तमित्याशयेन स एव पक्षः कण्ठत उक्त इति बोध्यम् || 82 इष्टापत्तिरिति । उपाध्यधिष्ठानयोरमिळितत्वेन ग्रहणं तु न सोपाधिकत्वे प्रयोजकम् ; अयो दहतीत्यादिभ्रमे तदभावादिति भावः ॥ न बुद्धिगतमहमर्थेऽध्यस्यते, अहमर्थस्य यंशत्वात् ; बुद्धयधि- ष्ठान एव बुद्धिगतस्याध्यासात् नाप्यहमर्थगतमात्मनि ; अहमर्थे कर्तृत्वादेरस्वाभाविकत्वात् यत्त्वनध्यासेनैवाहं कर्तेति बुद्ध्युपपत्तिरि- त्युक्तम् तन्न; अध्यासं विनाहमित्युल्लेखासंभवादित्याशयेनाह- नाहङ्कारस्त्विति । ऐक्याध्यासं विनेति । कर्तृत्वादिविशिष्टतया ऐक्याध्यासस्यावश्यकत्वे तु विनिगमनाविरहात्कर्तृत्वादिधर्माध्यासोऽ- प्यावश्यक इति भावः । एतेन - बुद्धि तादात्म्याध्यासादेवात्मनि कर्तृत्वादि- , , ,