पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] कर्तृत्वाध्यासोपपत्तिः सत्त्वादिति वाच्यम्; बुद्धेरेव कर्तृत्वम्, भोक्तृत्वं तु चैतन्यस्येति पूर्वपक्षं कृत्वा कर्तृत्वभोक्तृत्वयोरैकाधिकरण्यनियमेन भोक्तृत्ववत् कर्तृत्वमप्यङ्गीकर्तव्यमित्युक्तम्, न तु बुद्धेरकर्तृत्वमात्मनो वा स्वाभाविकं कर्तृत्वमिति । 'यथाच तक्षोभयथा' इत्युत्तराधिकरणे पूर्वाधिकरणोक्तस्य आत्मकर्तृत्वस्य स्वाभाविकत्वपूर्वपक्षे औपा- धिकत्वस्य स्थापितत्वात् । अतो न तदधिकरणविरोधः । यदपि बुद्धेः कर्तृत्वे करणत्वं कथमिति ? तदप्ययुक्तम्; अन्यत्र कर्या एव बुद्धेरुपलब्धि प्रति करणत्वोपपत्तेः । न च – कर्तृ- त्वाद्यनर्थरूपबन्धस्य बुद्धिगतत्वेन मोक्षस्यापि तदन्वयापत्तिः, अनर्थतन्निवृत्योरैकाधिकरण्यनियमादिति – वाच्यम्; कर्तृत्वा- 83 बुद्धयुपपत्तेः कर्तृत्वादेः सोपाधिकत्वमात्रसिद्ध्यर्थमात्मनि साक्षात्संबन्धो न युक्त — इत्यपास्तम् । किं च साक्षात्संबन्धेनात्मनि कर्तृत्वादेरनुभव- स्तार्किकादिसर्वसिद्धः स्वाश्रयतादात्म्यमात्रेण कथमुपपाद्य कथं वा ध्ययम् । 1 स्मृत्यादिगीयमानं कर्तृत्वादेरौपाधिकत्वमपलपनीयमिति भोक्तृत्वं तु चैतन्यस्येति । सुखदुःखानुभवरूपं भोक्तत्वं चित एव युक्तमिति भावः । नियमेन करोमि भुजे इति धीसिद्धेन । कर्तृत्व- मपीति । असंसर्गाग्रहस्य विशिष्टव्यवहारहेतुत्वे गौरवाद्विशिष्टबुद्धेरेव तद्धेतुत्वादहं कर्तेत्यादिकम प्यात्मनि वाच्यम् । न च – कर्तृत्वभो- क्तृत्वयोरैकाधिकरण्यानियमादरे बुद्धेरपि भोक्तृत्वापत्तिरिति --वाच्यम् ; सुखाद्यनुभव ' तादात्म्यारोपस्य बुद्धौ सत्वेनेष्टापत्तेः । अन्यत्र लौकि- कवैदिकक्रियामात्रे । कर्या: 'विज्ञानं यज्ञं तनुते, कर्माणि तनुतेऽपि चेति श्रुत्युक्त कर्तृत्वयुक्तायाः । उपलब्धि वृत्तिप्रतिबि- म्बितां भग्नावरणां वा चितं प्रति । करणत्वोपपत्तेः वृत्त- 1 कर्तेत्यादिव्यवहारात्कर्तृत्वादिकम क. 2 भवे- क. 6*