पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [ प्रथमः तेन तदु पित्रर्थपुत्रगतं पूतत्वादिकं तदनुष्ठातुः पितुरेव फलम्, द्देशात्; न चेहात्मा अन्तःकरणार्थः, येनात्मगतो मोक्षस्तस्यो- द्देश्यः स्यादिति वाच्यम् ; आत्मा यद्यपि नान्तःकरणार्थः, अह- मर्थगततया तथापि फलस्योद्देश्यत्वानुभवादहमर्थस्य चात्माना- त्मरूपत्वेनात्मन्यपि फले उद्देश्यगतत्वानपायात् । यद्वा - आरो पितानारोपितसाधारणं कर्तृत्वमेव फलभाक्त्वे प्रयोजकम्, तच्चा- त्मन्यस्त्येव । न च शरीरेऽप्यारोपितकर्तृत्वेन फलभाक्त्वापत्तिः; फलपर्यन्तमसवेन फलभाक्त्वासंभवात् । न हि कर्तुः फल- कारणयोः सामानाधिकरण्यं तु शास्त्रबोधित मपि कल्प्यमानं पितरीव पुत्रेऽपि संभवति; कार्यस्य कारणस्य वा परम्परासंबन्ध इत्यस्याविनि गम्यत्वात् तथाच प्रयोक्तर्येवेति नियमो भग्न एव । न च – प्रयो क्तरीत्येवोच्यते न तु प्रयोक्तर्येवेतीति वाच्यम्, ऋत्विजां फलसंबन्धवार- णाय प्रयोक्तर्येवेत्यस्यावश्यं वाच्यत्वात्, पितृयज्ञादि कृत्वा मृतस्य पुत्रादेः शास्त्रोक्तफलासंबन्धेन प्रयोक्तरीत्येतावदुक्तावपि व्यभिचाराच्च । पित्रर्थ- पुत्रेति । सुखादियोगित्वेन पितुरिच्छाविषयपुत्रेत्यर्थः । तेन – पित्रा । तदुद्देशात् पुत्रगतत्वेन फलस्य काम्यत्वात् । यथा ग्रामादेः स्वनिष्ठत्वा - भावेऽपि स्वसुखसाधनत्वेन गृहीत स्वत्त्वादिमत्त्वेनेष्टत्वम्, तथा पुत्र- पूतत्वादे: स्वसुखप्रयोजकत्वेनेष्टतेति भावः । आत्मा- शुद्धात्मा । अन्तःकरणार्थः सुखस्फुरणं भवतु म्फुरणं सुखस्य भवतु स्फुरणं निर्दुःखं भवत्वितीच्छानुभवात्पुत्रादिवदात्माप्यन्तःकरणार्थ एवेति यद्यपीत्यनेन सूचितम् | अहमर्थगततया तथापि तथाप्यहमर्थगततया । आत्मन्यपि फले मोक्षरूपे केवलात्मगतेऽपि फले । उद्देश्यगतत्वानपायात् अन्तः- करणार्थाहमर्थामिन्नात्म गतत्वस्यानपायात् । असंभवादिति । यत्तु - - 1 शस्त्राबोधित क. ग. 86 ,