परिच्छेदः] देहात्मैक्याध्यासोपपत्तिः 99 भावाच्च । नन्विदं विनिगमकम् जातमात्रस्य पश्चादेः प्रवृ च्यादिहेतोरिष्टसाधनताद्यनुमितेर्हेतुर्यत्स्तन्यपानम्, तदिष्टसाध- नम्, यथा पूर्वदेहीयं स्तन्यपानमित्यादिव्याप्तिस्मृतिस्तावन देहान्तरास्मृतौ युक्ता, न च 'मम प्राग्देहान्तरमभू 'दिति स्मरत- स्तस्यैक्यधीः संभवति, किंत्वनेकमण्यनुस्यूतसूत्रमिवानेकदेहे- ष्वनुस्यूतमात्मानं पश्यतः स्वतो भेदधीरत्रेति – चेन्न; पूर्वदेह - स्मृति विनाप्यनुमितिहेतुव्याप्तिस्मृतेः संभवात् । न हि व्याप्त्यनुभव इव व्याप्तिस्मरणसमयेऽपि दृष्टान्तज्ञानापेक्षा । येन तदर्थं तद्देहस्मृतिरपेक्ष्येत । न च - तथापि 'योऽहं बाल्ये पितरावन्वभूवं सोऽहं स्थाविरे प्रणतॄननुभवामि' 'योऽहं स्वप्ने व्याघ्रदेहः सोऽहमिदानीं मनुष्यदेह इति देहभेदधीपूर्वकं स्वस्यैक्यमनुसन्दधानः कथं ततो भेदं न जानीयादिति- वाच्यम्; विरुद्धधर्मरूपलिङ्गधीजन्यभेदधीसंभवेऽप्यपरोक्षाभेद- ' , - गौणत्वम् ; नाहं गौर इति बुद्ध्यभावात् । मम देह इति बुद्धिस्त्वहं देह इति बुद्धेरेव गौणत्वापादिका न त्वहं गौर इति बुद्धे; भिन्नाभ्यां रूपाभ्यां भेदाभेदयोरुभयोरपि संभवादिति भावः । व्याप्तचनुभव इवेत्यादि । व्याप्तयनुभवकाले मदीये देहे स्तन्यपानमिति दृष्टान्तज्ञान- मात्मनि देहत्वावच्छिन्नभेदविषयकं दैवादस्ति । व्याप्तिस्मृतिसमये तु नोक्तविषयकधीरपेक्षते ; प्रवृत्त्यन्यथानुपपत्त्या इष्टसाघनत्वानुमिति- प्रयोजकव्याप्तिमात्रस्मृतेः कल्पनादितरांशे जन्मान्तरीयसंस्कारोद्वोघे मानाभावात् । व्याप्तिघटकेनाधिकरणत्वेन स्तन्यपानस्य स्मृतिस्त्विष्टैव; न हि तावता परेष्टसिद्धिरिति भावः । विरुद्धधर्मेति । व्याप्तया- त्मनि तदेहानुवृत्तत्वेन हेतुना तद्देहाननुवृत्तदेहभेदानुमितिरित्यर्थः । 7*
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०६७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति