पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्ध [ प्रथमः - वदत्यय- अन्यथा एवायमैक्यभ्रमः । अत एवाकुळ्या देहं प्रदर्य महमिति । अत एव देहात्मैक्यनिषेधश्रुतिरप्युपपद्यते; तस्याप्रसक्तप्रतिषेधकतापत्तेः । न च कुसमयप्राप्तनिषेधिका सा; प्रत्यक्षविरुद्धकुसमयस्याप्यनवकाशात् । तस्मादाभीरसाधारणात् अहं गौर' इत्यादिप्रत्ययादात्मन्यन्तःकरणैक्याध्यासादेह- तद्धर्माध्यासोऽपीति सिद्धम् ॥ 6 इत्यद्वैतसिद्धौ देहात्मैक्याध्यासोपपत्तिः ॥ 106 , अत एवेति । मिथ्यात्वव्याव्यवद्विशेष्यकत्वज्ञानेन सतर्केण सत्यत्व- ज्ञानमाभासीकृत्य मिथ्यात्वं यथा प्रपञ्चेऽनुमयते, तथा चार्वाकादीना- मैक्यव्याप्यवद्विशेष्यकत्वज्ञानेन सतर्केण भेदप्रत्यक्षमाभासीकृत्य नैक्यानु मानम् ; व्याप्तया द्यप्रतिसन्धानेऽप्ययमहं गौर: स्थूल इति स्वाभाविक- व्यवहारदर्शनात् परं तु मम देह इति भेदप्रत्यक्षे सत्यपि नाहं गौर इत्यादिप्रत्यक्षाभावात् गौरोऽहमित्यैक्यप्रत्यक्षस्याप्रतिबन्धत्वात्तेनैव चार्वा- कादीनामैक्यव्यवहार इति भावः । कुसमयस्येति । देहात्मैक्यबोधक- कुत्सितशास्त्रस्येत्यर्थः । अनवकाशादिति । श्रुतितन्मूलकशास्त्रं विना प्रत्यक्षविरुद्धे शास्त्रे आस्तिकानामविश्वासात्तत्प्राप्तार्थनिषेधकत्वं श्रुतेर्न युक्त- मिति भावः : यत्तु – प्रत्यक्षोऽपि देहात्मनोर्भेदो न व्यवद्दियते यम- जयोर्भेद इवेति तद्व्यवहारहेतुज्ञानाय श्रुतिरतो नानुवाद इति - तन्न ; अव्यवह्रियमाणस्य मेदस्येदानीं प्रत्यक्ष मानाभावात् । यमजयोर्भेदस्तु व्यवह्रियते, तद्व्यवहर्ता तु सामग्रयभावान्न प्रत्यक्षीक्रियत इति ॥ तर्केरित्यादि – देहात्मैक्योपपादनम् || - इत्यद्वैतांसद्धिव्याख्यायां गुरुचन्द्रिकायां देहात्मैक्याध्यासोपपत्तिः ॥ , -