पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद:] अनिर्वाच्यत्वलक्षणोपपत्तिः अथानिर्वाच्यत्वलक्षणोपपत्तिः 107 - ननु – अविद्यायां तन्निबन्धनाध्यासे च सिद्धेऽपि न तस्यामनिर्वचनीयत्वसिद्धिः; लक्षणप्रमाणयोरभावात् । तथाहि- किमिदम निर्वाच्यत्वम्, न तावन्निरुक्तिविरहः (१), तन्निमित्त- ज्ञानविरहो वा (२), तन्निमित्तार्थविरहां वा (३), तन्निमित्त- सामान्यविरहो वा ( ४ ) | आद्ये अनिर्वाच्य इत्यनेनैव निरुक्तथा 'इदं रूप्यमि'ति निरुक्तया च व्याघातः, द्वितीये निरुक्ति- रूपफलसवेन तन्निमित्तविरहस्य वक्तुमशक्यत्वम् । अत एव न तृतीय: ; अर्थस्य निरुक्तावनिमित्तत्वाच्च । फलसवादेव न चतुर्थः । नापि सद्विलक्षणत्वे सत्यसद्विलक्षणत्वम् (५) सदसद्रूपत्वेऽप्युपपत्तेः । अत एव न सचराहित्ये सत्यसत्वविरहः (६) तथा च लक्षणासंभव इति - चेन; सद्विलक्षणत्वे सत्यसद्विलक्षणत्वे सति सदसद्विलक्षण त्वम् । (७) सच्चासवाभ्यां विचारासहत्वे सति सदस- वेन विचारासहत्वं वा (८) प्रतिपन्नोपाधौ बाध्यत्वं वा - अथानिर्वाच्यत्वलक्षणोपपत्तिः तस्यामिति | स्वप्रयुक्ताध्याससहितायामविद्यायामित्यर्थः, तेन रूप्याद्यनिर्वाच्यत्वस्यापि समर्थनमग्रे नासङ्गतम् । वक्तुमशक्यत्वा- दिति । निरुक्तिरूपफलसत्त्वे तत्कारणज्ञानादिकमावश्यकमिति भावः । अर्थ तन्निमित्तत्वं तत्कारणज्ञानविषयत्वं तत्कारणत्वं वा, आद्ये- आह – अत एव न तृतीय इति । द्वितीय आह–अर्थस्येति । प्रतिपन्नोपाधौ बाध्यत्वम् स्वाधिकरणनिष्ठात्यन्ताभावप्रतियोगित्वम् । ,