पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अनिर्वाच्यत्वलक्षणोपपत्तिः विरहस्यासवरूपत्वं – निरस्तम्; अथासवं, निरुपाख्यत्वं, निःस्वरूपत्वं वा । नाद्यः; असदादिपदेनैव ख्यायमानत्वात् । न द्वितीयः; स्वरूपेण निषेधपक्षे शुक्तिरूप्यादेरपि निःस्वरूप- त्वेनासद्वैलक्षण्यानुपपत्तेरिति – चेन्न; पराभिमतसत्त्वासच्चे एव विवक्षिते, न पारिभाषिके, अतो न तादृक्सदसद्वैलक्षण्योक्ता- विष्टापत्तिः । नापि – तयोः परस्परविरुद्धत्वेन एकनिषेधस्या- परविधिपर्यवसन्नतया एकत्रोभयवैलक्षण्यं व्याहतमिति वाच्यम्, निषेधसमुच्चयस्यातात्त्विकत्वाङ्गीकारान्न व्याहतिः । न ह्यतात्विकरजतेन शुक्तेर्विरोधः । न च तर्हि सदादिवैलक्ष- ण्योक्तिः कथम् ? तत्तत्प्रतियोगिदुर्निरूपतामात्र प्रकटनाय | न हि स्वरूपतो दुर्निरूपस्य किंचिदपि रूपं वास्तवं संभवति । पराभिमतेति । इष्टापत्तिः ---इष्टसंपत्तिः । न व्याहतिरिति । पराभ्युप- गतयोः सत्त्वासत्त्वयोर्मिथो विरुद्धत्वेन पराभ्युपगतसत्त्वासत्त्वरूपावभावौ- न लक्षणे निवेश्येते, किंत्वतात्त्विकत्वेन प्रतियोगिसमानाधिकरणौ व्याप्य वृत्ती ; अतो न व्याहातरिति भावः । कथम् – किमर्थम् । अतात्त्विक- योम्तदभावयोस्तदधिकरणे ममापीष्टत्वात्तदुक्तिर्व्यर्थेति भावः । न सा व्यर्था; तादृशाभावयोः प्रतियोगिसमसत्ताकयोरेव निवेशेन स्वा- न्यूनसत्ताकस्य म्वसमानाधिकरणात्यन्ताभावस्य प्रतियोगित्वरूपमिथ्या- त्वस्य सत्त्वाद ज्ञापकत्वादित्याशयेनाह -तत्तत्प्रतियोगिदुर्निरूप- त्वेति । प्रपञ्चसत्त्वादिमिथ्यात्वेत्यर्थः ॥ -- 109 - ननु – त्वन्मते प्रपञ्चे सत्त्वाद्यभावस्य तात्त्विकत्वमेव युक्तम् ; अन्यथा सत्त्वादेस्तत्र तात्त्विकत्वापत्तेस्ताह --स्वरूपतो दुर्निरूप- स्येति । मिथ्याभूतस्येत्यर्थः । किंचिदपि सत्त्वादिरूपमधिष्ठाना- । तदुक्तिस्ते व्यर्थेति-ग.