पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ प्रथमः एकत्र - तन्त्वादौ घटतत्प्रागभावयोरुभयोरप्यतात्त्विकत्वदर्शनात् । न च प्रतियोगितदत्यन्ताभावयोरेवायं नियमः; नियामकाभावा- दस्माकमसंप्रतिपत्तेः । वस्तुतस्तु – सच्चासत्वयोर्न परस्पर- विरहरूपत्वम्, किंतु परस्परविरहव्याप्यतामात्रम् | न च तादृश- पारिभाषिकसद सद्वैलक्षण्योक्तौ नास्माकमनिष्टमिति – वाच्यम्; सत्त्वमबाध्यत्वम् असत्वं सत्वेन प्रतीत्यनर्हत्वम्, तदुभय- वैलक्षण्यं च तव जगत्यसंप्रतिपन्नमिति कथमिष्टापत्यवकाशः ? इष्टापत्तौ च कथं न मतक्षतिः ? अत एव ध्वंसानुपलक्षित- तदुपलक्षितसत्तायोगित्वरूपनित्यत्वानित्यत्वयोः सत्ताहीने सामा- न्यादावभाववदुत्तरावधिराहित्यं नित्यत्वम्, भावान्यनिवृत्तिमत्त्वं चानित्यत्वम्, तदुभयाभावः प्रागभाव इव शुक्तिरूप्यादौ , 112 सव्याख्यायामद्वैतसिद्धों परस्परविरहरूपयोरेकत्रोभयोरतात्त्विकत्वं विरुद्धम् ; , 1 विद्यमानत्वं विरुद्धमिति भावः । नियामकाभावात् – उक्तनियम- ग्राहकतर्काभावात् । प्रतियोगिसमवायिन्यत्यन्ताभावानङ्गीकर्तृमते कपा- लादौ भाविघटादेरिदमिदानीं घटवन्न वेत्यादि । संशयस्य दर्शनेन प्रतियोगितदत्यन्ताभावयोरप्यतात्त्विकयोरेकत्र विद्यमानत्वं न विरुद्ध- मित्यपि बोद्धयम् । सत्त्वमबाध्यत्वमित्यादि । विवेचितमेतन्मि- थ्यात्वानुमाने । ध्वंसानुपलक्षितेत्यादि । ध्वंसाप्रतियोगिवृत्तित्वविशि- सत्तायोगित्वं नित्यत्वम्, ध्वंसप्रतियोगिवृत्तित्वविशिष्टसत्तायोगित्वमनि- त्यत्वम्, तयोः सामान्यादावभाववदित्यर्थः । उत्तरावधिराहित्यम्- ध्वंसाप्रतियोगित्वम् । भावान्यनिवृत्तिमत्त्वम् – भावान्या या निवृ 1 वन्नेत्यादि - क. ग.