पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अनिर्वाच्यत्वलक्षणोपपत्तिः 115 - किमिदं स्वरूपतो दुर्निरूपत्वं केनापि प्रकारेण दुर्निरूपत्वं वा, केनापि दुर्निरूपत्वमित्येतदन्यप्रकारेण वा, सत्त्वासवाभ्यां वा । नाद्य:; केनापि प्रकारेण दुर्निरूपत्वमित्यनेन प्रकारेण दुर्निरूप- त्वादुर्निरूपत्वाभ्यां व्याघातात् । अत एव न द्वितीयः; केनापि प्रकारेण दुर्निरूपत्वमित्येतदन्यप्रकारेण दुर्निरूपत्वस्य केनापि प्रकारेण दुर्निरूपत्वान्यत्वात्, मिथ्यात्वादिना कल्पितस्य सुनिरूपत्वाच्च । न तृतीयः; तस्य सदसद्वैलक्षण्यावास्तवत्वाहेतु- त्वादिति – निरस्तम्; तृतीयपक्षस्य क्षोदसहत्वाच्च । तथाहि — सत्यासत्वाभ्यां दुर्निरूपत्वं हि बाधिततद्वयकत्वम्, तच्च धर्म- विशिष्टधर्म्यतात्त्विकत्वे हेतुः; तथाच सदसद्वैलक्षण्यमपि धर्म- स्तदतात्विकत्वे कथं न हेतुः स्यात् । नचैवं —–—– कल्पितस्य दृश्यादृश्यबाध्याबाध्यदुर्निरूपसुनिरूपत्वादिबहिर्भावोजी स्या- दिति – वाच्यम्; तात्त्विकदृश्यत्वाद्यशेषधर्मबहिर्भावस्य कल्पिते दृष्टत्वात् । अतात्त्विकस्य दृश्यत्वादेर्व्यावहारिकप्रमाणै: र्यथा- दुर्निरूपत्वहेतु कस्य धर्माभावानुमानस्य सम्भवेन । सदसद्वै- लक्षण्यावास्तवत्वेत्यादि । सदसत्त्वाभ्यां दुर्निरूपत्वं स्वाधिकरणस्या- वास्तवत्वसाधकं, न तु स्वसमानाधिकरणस्य सदसद्वैलक्षण्यादिधर्म- स्येत्यभिमानः । अतात्त्विकत्वे हेतुरिति । धर्मविशिष्टोधर्मी बाध्यः, दुर्निरूपत्वादित्यनुमानाद्विशिष्टस्य बाध्यतासिद्धिः । अथवा- धर्मी बाध्यो 2 डबाध्यत्वेन धर्मसामान्यस्याभाववांश्च दुर्निरूपत्वा- दित्यनुमानात्तत्सिद्धिः । वस्तुतो दृश्यत्वादिना धर्मिणां घर्माणां चोक्तदुर्निरूपत्वस्य सिद्धिरविशेषात्तेन च बाध्यत्वसिद्धिरित्यपि सम्भव- तीति भावः । तात्त्विक दृश्यत्वाद्य शेषधर्मबहिर्भावस्य । दृश्यत्वादे- 1 धर्मविशिष्टो धर्माबाध्यो- क. 2 धर्माबाध्यो - क. 1 , ● 8*