पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [प्रथमः - विचारासहत्वं सद्रूपत्वाद्यभावः । सत्त्वरूपधर्माभावेऽपि यथा ब्रह्मणः सद्रूपत्वं तथोपपादितमधस्तात् । अतो न तत्रातिव्याप्तिः । न चैवं – सदात्मके ब्रह्मणि श्रौतसत्यपदादौ लाक्षणिकत्वं न स्यादिति वाच्यम्; सत्त्वधर्मविशिष्टवाचकस्य तस्य निर्धर्मके लक्षणाया आवश्यकत्वात् । न हि निर्धर्मकस्वरूपवाचकत्वं कस्य- चिदपि पदस्यास्ति । ननु – सत्त्वादिराहित्यमतात्त्विकमपि न तावत्प्रातिभासिकम् ; रूप्यप्रपञ्चयोर्ब्रह्मवत्पारमार्थिकत्वापत्तेः । नापि धर्मिसमसत्ताकम् ; बाधबोध्यस्य भ्रान्तिसिद्धेन साम्या - योगात् । नापि व्यावहारिकम्; जगति व्यावहारिकत्वे रूप्ये प्रातिभासिकत्वे चोक्तदोषात्, रूप्ये व्यावहारिकत्वे च जगति पारमार्थिकत्वापातेनाद्वैतहानिरिति - चेन्न; धर्मिसमसत्ताकस्यैव सत्वादिविरहस्येष्टत्वात् । न च बाधबोध्यस्य भ्रान्तिसिद्धेन सत्ताकत्वसम्बन्धेन सत्ताभावादेर्लक्षणत्वसम्भवात् । तद्व्यक्तित्वेनाभावस्य लक्षणत्वेन सत्तादिप्रतियोगिकत्वविशेषणवैयर्थ्यशङ्कानवकाशात् । वस्तुतो मन्मते लक्षणवाक्यस्येतरव्यावृत्ताखण्डार्थतया प्रमाणत्वस्य वक्ष्यमाण- त्वेन वैयर्थ्यशङ्काया नावकाशः । तथोपपादितमिति | सदाकार- प्रतीतौ सर्वानुगतमेकं ब्रह्मैव सद्रूपं विषयो, नान्यदननुगतत्वादि- त्यायुक्तामत्यर्थः । अधस्तात् मिथ्यात्वानुमाने । कस्यचिदिति । आकाशादिपदस्थापि शुद्धव्यक्तौ शक्तिर्न सर्वसम्मतेति भावः । यद्यपि विशिष्टवाचकस्य शुद्धेऽपि शक्तिसत्त्वात्तत्र न लक्षणा । अत एव पश्वादिपदस्य लोमवल्लाङ्गूलवच्छक्तस्य लाङ्गूलवत्त्वमात्रेण बोषकत्वं लक्षणां विनैव । अत एव चानुकूलयत्नशक्तस्याख्यातस्यानुकूलमात्र- बोधकत्वं लक्षणां विनैवेति कुसुमाञ्जल्यादावुक्तम्, तथापि विशिष्ट- बोधकत्वस्यौत्सर्गिकस्य बाधेन शुद्धबोधकत्वस्थलेऽपि लक्षणेति व्यपदेशो, न तु लक्षणेति पूर्वोक्तमिहानुसन्धेयम् । इष्टत्वात् लक्षणत्वनेष्टेत्वात् । 118