पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अनिर्वाच्यत्वलक्षणोपपत्तिः - , साध्यायोगः; बाधस्याधिष्ठानमात्रगोचरत्वेन रूप्यवत्तत्सत्व- विरहस्यापि साक्षिसिद्धतया बाधबोध्यत्वाभावात् । नचैवं सत्त्व- प्रतीतिविरोधः; अतात्विकस्य तस्याप्यङ्गीकारात् । न चैवं- तात्त्विकसत्त्वविरहस्यैव लक्षणत्वपर्यवसानम् ; तात्त्विकत्वं चा बाध्यत्वम् तथाच बाध्यत्वमेव लक्षणमास्त्वति – वाच्यम्; बाध्यत्वस्यान्यविशेषणत्वेनोपात्तस्य लक्ष्ये धर्मिण्यनन्वयेन त - न्मात्रमुपादायेतरवैयर्थ्यस्य वक्तुमशक्यत्वात् । न च – श्रुत्या युक्तथा च भेदं निराकुर्वता कथं सदसद्भिन्नत्वरूपं तद्व्याप्तं वाsनिर्वाच्यं समर्थ्यत इति वाच्यम्; मा विषीद; अतात्त्विक- स्यैव तस्य समर्थनात् । बाध्यत्वं तु मिथ्यात्वनिरूपण समय एव निरूपितम् । तस्मान्न शुक्तिरूप्य प्रपञ्चसाधारणानिर्वाच्यत्व- लक्षणानुपपत्तिः ।। इत्यद्वैत सिद्धावनिर्वाच्यत्वलक्षणम् ॥ 119 बाधबोध्यत्वाभावादिति । ननु – रूप्यं नास्ति रूप्ये सत्त्वं नास्तीति बाघबोध्य एव रूप्ये सत्त्वाभाव इति चेद्रान्तोऽसि ; यादृशविषय- कत्वेन भ्रममूल|ज्ञाननाशकत्त्वरूपा बाघकता, तादृशस्यैव भ्रान्ति- सिद्धवैलक्षण्यं वाच्यम्; अन्यथा रूप्यादेरप्युक्तविषयत्वेन विरोधात् । तथाच सत्त्वाभावादिविषयकत्वे नोक्तबाधता, किंवधिष्ठानविषयकत्वेनेति न दोषः । वक्तुमशक्यत्वादिति । धूमप्रागभावे धूमत्वस्येव भिन्न- धर्मिकत्वेन बाध्य[ता]त्वं नेतरवैयर्थ्यसम्पादकमिति भावः । निरूपितम् । स्वाश्रयनिष्ठव्याप्यवृत्त्यत्यन्ताभावप्रतियोगित्वादिरूपत्वेन विवेचितम् || तः सारस्वतै रलैश्चन्द्रिका चन्द्रभूषणैः । दुरन्तध्वान्तभङ्गाय अनिर्वाच्यत्वलक्षणम् || इत्यद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायामनिर्वाच्यत्वलक्षणम् ॥

1 बाधाविरोधात्-ग. 2 कत्वेन - क. ग.