पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

126 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः , । विमतं सद्विलक्षणम्, बाध्यत्वात् शुक्तिरजतसंसर्गवत् ; असत्ख्यातिवादिनं प्रति सद्विलक्षणं विमतम्, असद्विलक्षणम्, अपरोक्षघीविषयत्वात्, घटवत् । पक्षधर्मताबलादनिर्वचनीयत्व- सिद्धिः । यथा च न सिद्धसाधनव्याघातादिकं तथोक्तमध- स्तात् । एवं प्रपञ्चनिष्ठव्यतिरेक प्रतियोगित्वं, सत्त्वासत्त्वोभय- वृत्ति, प्रपञ्चनिष्ठव्यतिरेकप्रतियोगिमात्रवृत्तित्वात्, व्यवहार्य- त्ववत् ; सदसदुभयवृत्तित्वं प्रपञ्चनिष्ठव्यतिरेक प्रतियोगित्व- वृत्ति, सत्त्वासत्त्वोभयववृत्त्यशेषवृत्तित्वात्, भेदप्रतियोगित्ववत् । अप्रयोजकत्वमनुकूल तक्त्या निरसिष्यते । तस्मादनुमानमत्र मानम् ।। इत्यद्वैत सिद्धौ अनिर्वाच्यत्वसाधकानुमानम्. , असत्ख्यातिवादिनं प्रपञ्चाळीकत्ववादिनम् । 'नैकदा त्रयाणां विवाद इति न्यायेन द्वगोरेव विवादादेकैकं प्रत्येवानुमानं वाच्यम् । तत्र चाभाव- द्वयनिवेशे प्रयोजनाभाव इति भावः । सर्वान्प्रत्येकमेवानुमानमुच्यताम् ; तथापि न विशेषणाप्रसिद्धिरित्याशयेनाह – एवमिति । प्रतियोगित्व- वदिति । प्रपञ्चः सत्त्वासत्त्वोभयाभाववान् बाध्यत्वात् शुक्तिरूप्य- वदित्याद्यपि बोध्यम् || -- , तर्कैः सारस्वतै रत्नैश्चन्द्रिका चन्द्रभूषणैः । दुरन्तध्वान्तनाशायाऽनिर्वाच्यत्वानुमेयता || इत्यद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायामनिर्वाच्यत्वसाधकानुमानम् ॥