पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अविद्याऽऽद्यनिर्वाच्यत्वे अर्थापत्तिप्रमाणनिरूपणम् अथाऽविद्याऽऽद्यनिर्वचनीयत्वेऽर्थापत्ति- प्रमाणनिरूपणम्. 127 - अर्थापत्तिरपि ख्यातिबाधान्यथानुपपत्त्यादिरूपा तत्र प्रमाणम् । तथाहि — विमतं रूप्यादि सच्चेन्न बाध्येत, असचेन्न प्रतीयेत, बाध्यते प्रतीयतेऽपि, तस्मात्सदसद्विलक्षणत्वादनिर्वच- नीयम् । ननु सत्ताजात्यर्थक्रियाकारित्वादिकमनङ्गीकारपरा- हतम्, त्वन्मते व्यभिचारि च । न च व्यवहारदशाज्याध्यत्वमापा- द्यम् ; तथा सति 'नेह नाना' इति श्रौतनिषेधेन व्यवहारदशाया- मबाध्यस्य जगतोऽनिर्वचनीयत्वासिद्धिप्रसङ्गात्; यौक्तिकबाधस्य व्यवहारदशायामपि दर्शनाच्च अबाध्यत्वरूपं सवमापाद्या- विशिष्टम् ; प्रमाणिकत्वं तु ब्रह्मनिष्ठनिर्विशेषत्वादौ तत्त्वावेदक - श्रुतिवेद्ये ब्रह्मभिन्नतया बाध्ये व्यभिचारीति सवानिरुक्तिः अथाऽविद्याऽऽद्यनिर्वचनीयत्वेऽर्थापत्तिप्रमाणनिरूपणम् . अर्थापत्तेर्विषयपरिशोधकं तर्कमाह — तथा हीत्यादि । विपर्य- यानुमाने हेतोः पक्षघर्मतामाह – बाध्यते प्रतीयतेऽपीति । तस्मात् TI-FOT TUDIOTM । चारीति | रूप्यादौ प्रपञ्चे चेत्यादिः । प्रपञ्चे व्यभिचाराभावं शङ्कते– न चेति । प्रसङ्गादिति । प्रपञ्चे श्रुत्यादिना व्यवहारकालाबाध्यत्व- स्येष्टत्वेन तदापत्त्यसम्भवात्सत्त्वाभावस्य विपर्ययानुमानासम्भवेन सत्त्वा- भावादिघटितस्यानिर्वचनीयत्वस्यासिद्धिप्रसङ्ग इति भावः । यौक्तिक- बाधस्य किंचिद्दृश्ये यौक्तिकमिथ्यात्वनिश्चयस्य | व्यवहारदशायां सर्वदृश्यमिथ्यात्वानिश्चयदशायाम् । ब्रह्मभिन्नतया बाध्य इति । 1 दनं - क. क. ग.