पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

135 - परिच्छेदः] अविद्यायनिर्वाच्यत्वे अर्थापत्तिप्रमाणनिरूपणम् आसी' दिति श्रुत्या असतः सत्वेन प्रतीतिरिति वाच्यम्; यथा नानया असतः सत्त्वप्रतिपादनं तथोक्तं मिथ्यात्व- लक्षणे । तार्किकास्तु— शशशृङ्गादिपदानामपार्थकतैवेति- वदन्ति । नचानन्वयनिश्चयावरहदशायां प्रवृत्तिपर्यन्तानुभव- विरोधः; अनन्वयनिश्चयदशायामेवाबोधकतोक्तेस्तद्विरहदशाया- मपि नाखण्डशशशृङ्गादिबोधकत्वम्, किंतु सन्मात्रगोचरव्यधि- करण प्रकारकज्ञानं वा सदुपरागेणासद्गोचरज्ञानं वा । केवला- सद्भाने सामग्रीविरहात् । तदुक्तं बौद्धाधिकारे - 'सङ्गतिग्रहणा- भावात् शशशृङ्गादिपदानामबोधकते ' ति । न च यौगिकशब्दा- नामवयवसङ्गत्यतिरेकेण पृथक्सङ्गत्यनपेक्षत्वम् अवयवशक्ति- प्राधान्येन बोधनेऽखण्डासद्बोधनस्याशक्तत्वात् । अवयवानां स्वशक्तथपुरस्कारेणाप्रत्यायकत्वात् । न हि पाचकादिः पाकादि- मबोधयन् बोधयति । न च तर्हि शशशृङ्गम सच्छशशृङ्गं नास्ती - त्यादिवाक्यानामबोधकत्वम् ; तेषां शशे शृङ्गाभावबोधकत्वात् । एषा तु बोधकता न शशशृङ्गपदमात्रे, किंतु नास्तीतिपदसमभि- व्याहृते । अतो न नास्तीति पौनरुक्तथरूपशङ्कामासाद्यवकाश इति । यद्वा – अपरोक्षप्रतीत्यभाव आपाद्यः । न च – यदसत्तन्न समाहितमिति बोध्यम् । अपार्थकता वाक्यार्थाबोधकत्वम् । अख ण्डेति । शशीयत्वादिरूपेणाप्रतीयमानेत्यर्थः । टीकाकृन्मते भ्रमस्थले सदुपरक्तस्यासतः संसर्गस्य भानमाश्रित्य – सदुपरागेति । शशे शृङ्गाभावबोधकत्वादिति । लक्षणया शृङ्गपदस्य शशवृत्तिरर्थः, नव्पदस्य शृङ्गाभावोऽर्थः, शशपदं चोक्तलक्षणायां तात्पर्य ग्राहक मिति भावः । नन्वेवं — शशशृङ्गपदाभ्यामपि शशवृत्तेः शृङ्गाभावस्य लक्षणया बोधनसंभवान्नास्तीत्यस्य वैयर्थ्य, तत्राह - एषेति । तथाच तथा -- --