पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छदेः] तृतीयमिथ्यात्वनिरूपणम् 91 साधारण्येन तादाम्ये क्लृप्तशक्तयैवोपपत्तेरित्यादि लाघवम् । किंच घटतद्वेतुकपालयोः समसत्ताकभेदे गुरुत्वादिभेदात्तत्कार्यावनतिविशेषा- द्यापत्तिः । अथ गुरुत्वादिकं कार्यद्रव्ये कुत्रापि वा न जायते, उक्तकार्य तु त्रुटिगुरुत्वेभ्यः अवयवविशेषाद्वा, तर्क्षवयवानां मिथस्संयोगमात्रादवयवनाशरूपात्परिणामविशेषाद्वा उक्तकार्यसंम्भवात् 'कृतमवयवावयवियौगपद्येनोक्तगौरवेण । अथ भिन्नकालीने ध्वंसे प्राग- भावे च कथं तत्प्रतियोगिनः तादात्म्यमिति चेत् प्रतियोग्यनुयो- गिभावोऽपि ते कथं ? अनुभवस्य मेऽपि तुल्यत्वात् । किंचैक स्यामेव मूलाविद्याव्यक्तौ तत्तत्सामग्रीसमवधानोत्तरकालावच्छेदेन सामा- न्यगुणकर्मणां भेदाभेदादीनां चाखण्डानां अविद्यावस्थारूपत्वेनानादीनां यथामर्यादं सत्त्वम् । अतएवाविद्यान्यजडजातौ मानाभाव इति वृद्धाः । तन्नयायश्च गुणादौ तुल्यः । ३ तेषां नित्याखण्डत्वमपि । एकैका एव नीलारुणादिव्यक्तय इत्यादिना मीमांसकनव्यतार्किकाद्यनुमोदितं आविर्भावमात्रं न किञ्चिदुत्पद्यते इत्यादिसांख्यादिसिद्धान्तस्याप्ययमवे निष्कर्ष:, प्रकारान्तरस्यासम्भवात् । इयांस्तु विशेषः—यत्तैः 'अवि द्यानामविनाशि सत्यत्वं भेदाग्रहादिकं चोच्यते, सिद्धान्ते तु विनाशि मिथ्यात्वम् | भेदाग्रहादिस्थले च प्रातिभासिकाभेदादिरिति मूलाबि- द्यायां घटत्वादेरुक्तकालावच्छेदेनैव सम्बन्धो घटाद्युत्पत्तिः, कपालिका- त्वाद्युक्तसम्बन्धो घटादिनाशो व्यवह्रियते । उक्तं च तत्त्वकौमुद्यां- कारणसम्बन्धः उत्पत्तिः' इति । यावतां मेलन क्षणा- व्यवहितोत्तरक्षणावच्छेदेन यस्य सम्बन्धः तावतामनन्यथासिद्धानां तद्विशिष्टं प्रति तत्कारणत्वं व्यवह्रियते । न च कारणकूटवत् तत्तत्क्षणाव्यहितोत्तरक्षणावच्छेदेन मूलाविद्यायां घटत्वादिरूपावस्था- 3 2 अवस्थाविद्या रूपत्वेन इति. पा. 6 । कृत्रिमावयवयौगपद्येन इति. पा. पा. 4 अविद्यानाद्यानामितिवा. पा. 3 तथेति.