पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ कालेऽसंभावितत्वात्, भेदस्य घटापसरणानपसरणयोस्तुल्य- - त्वात्, संसर्गोऽपि न तात्त्विकः ; प्रतियोगिनि पूर्ववध्वंसा- धनुपपत्तेः, किंत्वसन् संसर्ग इति – वाच्यम्; उक्तमत्रोदय- नाचार्यैः– यनिबन्धना हि यत्प्रतीतिः तदभावनिबन्धनैव तद्- भावप्रतीतिः । इह च घटास्तित्वप्रतीतिः संयोगनिबन्धना, तद - भावप्रतीतिः संयोगाभावनिबन्धनैव । स च संयोगस्ताविक एव । न च ध्वंसादिविकल्पः; घटानयनात्प्राक्सयोगप्रागभा- 150 [ प्रथम: पदार्थत्वव्यवच्छेदे उक्ताभावः प्रतीतो न वा अप्रतीतश्चेत्कथं निषेध: प्रतीतश्चेत्सप्तैव पदार्थाः । अथ – पदार्थेषु सप्तत्वं नास्तीत्यर्थ इति चेन्न; घटपटादिषु सप्तत्वस्य सत्त्वात् । अथ - - द्रव्यत्वादिके षड्लक्षण - योगितया षत्वमापाद्य तत्र सप्तत्वं नास्तीत्यर्थ इति – चेन्न; षट्सु तस्येष्टत्वादतिरिक्तस्याप्रसिद्धत्वात् । किंच द्रव्यत्वादे: प्रत्येक परित्याग- निषेधे बाधः ; गुणादौ द्रव्यत्वादित्यागात् ; समुदायपरित्यागनिषेधेऽपि बाघ: ; एकत्र समुदायासत्त्वादि 'त्याशङ्कय भावत्वावच्छेदेनाद्रव्यत्वा द्ययोगसमुदायस्य व्यवच्छेदो न तु द्रव्यत्वादिसमुदायस्यायोगव्यव च्छेदः । उक्तायोगसमुदायश्चाभावेषु प्रसिद्धः । तथाच भावाः षडेवे- त्ययोगव्यवच्छेदस्य, द्रव्यादिषड्भिन्ने भावत्वव्यवच्छेदाद्रव्यादय एव भावा इत्यन्ययोगव्यवच्छेदस्य वा प्रकृते बोध इति लीलावत्यां व्याख्या- तम् । असंभावितत्वादिति । घटो नास्तीत्यादौ घटसामान्यस्य ध्वंसः प्रागभावो वा विषयो वाच्यः; तत्राद्यो महाप्रलयान्यकालेष्वप्रसिद्धः, द्वितीयस्तु सर्वदेति भावः । यद्यपि घटसंयोगादिसामान्यस्य ध्वंसः प्रागभावो वा न महाप्रलयान्यकाले प्रसिद्ध तथापि घटसंयोगा यावन्तः प्रत्येकं तत्प्रतियोोगकाः संसर्गाभावा उक्तधीविषया इत्याशये- नाह — घटानयनादित्यादि । अनुभवस्यादरेऽभावकूटमपि न विषयः,

समुदायसत्त्वादि-ख. 1