पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] निषेधप्रतियोगित्वानुपपत्त्या अनिर्वचनीयत्वसमर्थनम् 151 वस्य घटेऽपसारिते संयोगध्वंसस्य सत्वात् । न हि घटेऽन्यत्र नीते तद्देशे घटसंयोगोऽस्ति, येन प्रागभावादियहन्येत । तथाच संसर्गप्रतियोगिकाभावस्वीकारेऽपि नासत्प्रतियोगिका- भावसिद्धिः । वस्तुतस्तु–घटप्रतियोगिकत्वेनैवाभावस्यानुभवा- यं संयोगप्रतियोगिको भवितुमर्हति । एवं च सति कालविशेषसंसर्ग्यत्यन्ताभावो वा उत्पादविनाशशलिस्तुरीयः संसर्गाभावो वा भूतलादिसंयुक्तस्य घटस्य विशेषणाभाव- प्रयुक्तविशिष्टाभावो वा अङ्गीकरणीयः । न च – अत्राद्ये ध्वंसादेरुच्छेदः । कपालेऽपि घटान्यकालसंसर्गिणैवात्य- न्ताभावेन तद्व्यवहारोपपत्तेरिति वाच्यम्; 'दण्डी गौरव- लती' ति विलक्षणव्यवहारत्रये द्रव्यगुणकर्माणि विलक्षणानि हेतुर्यथा, तथात्रापि नास्ति नष्टो भविष्यतीति विलक्षणव्यव- हारत्रयस्यैकेन।त्यन्ताभावेनोपपादयितुमशक्यत्वाद्विलक्षणाभाव- - - किंतु सामान्याभाव इत्याशयेनाह – एवं चेति । विशेषसंसर्गी कालविशेषावच्छिन्नाश्रयताकः । भूतले संयोगेन घटो नास्तीत्या दौ भूतालादिसंयुक्तघटाद्यभावो भूतलादौ विषय इत्याशयेनाह - भूतलादीति । अद्य इति । तृतीय तत्तद्विशेषणसंसर्गाभावकूटस्य भानमित्युक्तौ तदुप- पत्तिः तद्वयक्तिध्वंसमादायैवेति न तदन्यथासिद्धि; द्वितीये तु यद्यप्युत्पत्त्यादिमता सामान्याभावेन तद्व्यक्तिप्रतियोगिकनाशस्यान्यथा- सिद्धिः, तथाप्यत एवेत्यादिना तस्य समाधेयत्वात् आद्य एव समय- विशेषसंसर्गश्चेत्यादेः कथनीयत्वाच्चाद्य इत्येवोक्तम् । घटान्यकालेति । तत्कपालावच्छदेन घटवत्का लादन्यकालेत्यर्थः ।विलक्षणव्यवहार- त्रयस्येति । नास्तीत्यत्रात्यन्ताभावत्वं नष्ट इत्यत्र ध्वंसत्वं भविष्यतीत्यत्र प्रागभाववमभावांशे प्रकार; तानि चाखण्डा सखण्डा बोपाषय