पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] श्रुत्यर्थापत्युपपत्तिः संविदेव हि भगवती वस्तूपगमे शरणमिति । तस्मानिषेधप्रति- योगित्वान्यथानुपपत्त्याप्यनिर्वाच्यत्वसिद्धिः ।। इत्यद्वैतसिद्धौ निषेधप्रतियोगित्वानुपपत्त्या अनिर्वचनीयत्वसमर्थनम् ॥ ' 153 अथ श्रुत्यर्थापत्त्युपपत्तिः. 'नासदासीनो सदासी 'दित्यादिश्रुतयोऽप्यनिर्वाच्यत्वे प्रमाणम् | न चात्र सदसच्छन्दौ पञ्चभूतपरौ, 'न सत्तन्नास- दुच्यत' इत्यादौ भूते प्रयोगात्, 'यदन्यद्वायोरन्तरिक्षाच्चैतत्स- द्वायुरन्तरिक्षं चेत्यस 'दिति श्रुतेश्चेति – वाच्यम्, प्रसिद्धपरत्वे विशिष्ट प्रतियोगितावच्छेदकरूपेण । उक्तं हि 'सङ्ख्यामभावो निरूप्यत इति । एवं च घटसंयोगित्वभूतलत्वाभ्यां सतोः प्रसिद्धिः प्रकृतेऽस्त्येव || तर्के: सारस्वतै रनैश्चन्द्रिकाचन्द्रभूषणैः । दुरन्तध्वान्तभङ्गाय अनुपपन्ना निषेध्यता || इत्यद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां निषेधप्रतियोगि त्वानुपपत्त्यानिर्वचनीयत्वसमर्थनम् || , अथ श्रुत्यर्थापत्त्युपपत्तिः नासदासीदित्यादि । 'नासदासीन्नो सदासीत्तदानीं नासी- द्वजो नो व्योमा परो यत् । किमावरीवः कुह कस्य शर्मन्नम्भः किमासी- गहनं गभीरम् । न मृत्युरासीदमृतं न तार्हे राज्या अह्न आसीत्प्रकेतः ।