पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] श्रुयर्थापत्त्युपपत्तिः 157 न च 'नो सदासी' दित्यनेनैव रजःप्रभृतिनिषेधे सिद्धे पृथ- निषेधानुपपत्ति: ; 'नो सदासी' दित्यत्र सच्छब्दस्य परमार्थ- सत्परत्वेन व्यावहारिकसतो रजःप्रभृतेर्निषेधस्य ततः प्राप्तथ - भावात्, 'आनीदवातं स्वधया तदेकमि' ति ब्रह्मणोऽप्यनिर्वाच्यत्वप्रसङ्गः, 'तम आसीदि' ति वाक्यशेषा- वाक्याद- 'पुरोडाशं चतुर्षा करोती'त्यनयोरिव विवक्षितार्थसिद्धेश्च । अन्यथा हि सदसतोः प्रतिषेधसहकृतेन तम आसीदित्यनेन तमसः सदसद्भिन्न- त्वमार्थिकं स्यान्न शाब्दम् । किंच तदानीमित्यस्य सदसत्प्रतिषेधा- नन्वये आर्थिकमपि तन्न स्यात् ; न हि कदाचित्तत्प्रतिषेध सहकृता कदाचिद्विद्यमानत्वेन तमउक्तिस्तमसः सदसदन्यत्त्वं विनाऽनुपपन्ना | तस्मात्सदसन्निषेधपक्षे तदानीमित्यस्य तदन्वयावश्यकत्वेऽप्युक्तयुक्तचा स पक्षो न युक्तः ; किंतु सदसद्भिन्नमासीदिति पर्युदास एव । तत्र च तदानीमित्यस्यान्वयेऽप्यदोष इत्याशयेन रजोनिषेधादा- वेव तदन्वयादित्युक्तम् । रजआदिनिषेध एव तदन्वयो न तु सदसन्निषेधे ; तस्य प्रकृते नञर्थत्वाभावादिति भावः 1 अत एव सद्भिन्नत्वे उक्ते इत्युक्तम् । नञोक्ते इति तत्रार्थः । व्यावहारिकसतः सत्त्वेन व्यवहार्यस्य । एतेन प्रातिभासिकस्यापि पृथगुक्तयापत्तिरिति परोक्तमपास्तम्; रजआदिपदस्य प्रातिभासिकादि- घटितलोकपरत्वेन व्याख्यातत्वात् । शङ्कते — आनीदित्यादि । यथा आसीदित्यादिवाक्यशेषेणोपसंहारादविद्यायास्तदात्मक कार्यसामा- न्यस्य च सदसदन्यत्वं लभ्यते; तमः पदस्याविद्यात्म कार्थकत्वादविद्या- त्मके आसीदित्यस्यान्वयेऽविद्यायामपि तदन्वयात्, अर्थात्तस्यां सत्त्व- लाभसंभवाच्च, आनीदित्यस्यासीदित्यर्थकत्वात्तदाऽऽनीदित्यायुपसंहारेण 1 प्रतिषेधान्वये - क. ग. तम