पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अन्यथाख्यातिभङ्गः अथान्यथाख्यातिभङ्गः नाप्यन्यत्र स्थितस्य रूप्यस्य भानादन्यथाख्यातिः; अत्यन्तासत इवान्यत्र सतोऽप्यपरोक्षप्रतीतिप्रयोजकसन्निकर्षा- नुपपत्तेस्तुल्यत्वात् । न च संस्कारस्मृतिदोषाणां प्रत्यासत्ति- त्वम् ; रजतप्रत्यक्षमात्रे रजतसंयोगत्वेन कारणत्वावधारणात्, सन्त्रिकर्षान्तरसत्त्वेऽपि तदभावे रजतप्रत्यक्षोत्पत्तेर्वक्तुमशक्य- त्वात् । न च लौकिकप्रमारूपप्रत्यक्ष एव तस्य कारणत्वम् ; अस्य विभागस्य स्वशिष्यानेव प्रत्युचितत्वात् गौरव करत्वात्, 161 , A. VOL III. अथान्यथाख्यातिभङ्गः संस्कारस्मृतिदोषाणामिति । इदं रुप्यमित्यादिभ्रमो रूप्या- द्यंशे उपनयसन्निकर्षजन्य इति प्राश्चः संस्कारम्योपनयत्वे तज्जन्य- प्रत्यक्षस्य स्मृतित्वाद्यापत्त्या स्मृतिरेवोपनयो न संस्कार इति वदन्ति । नव्यास्तु – उपनयप्रयोज्यस्य विषयत्वस्य लौकिकत्वासंभवादिदं रूप्यं साक्षात्करोमीति प्रत्ययानुपपत्तेर्दोषाणामेव भ्रमीयलौकिकविषयत्वे निया मकत्वमित्याहुः । प्रत्यक्षमात्रे इति । द्रव्यनिष्ठविषयतया प्रत्यक्ष- सामान्ये इन्द्रियसंयोगस्य हेतुत्वकल्पनायां लाघवाल्लौकिकविषयतया प्रत्यक्षे इन्द्रियसंयोगोऽलौकिकविषयतया प्रत्यक्षे उपनया दिर्हेतुरिति कल्पनानवकाशात् 'सुरभि चन्दन' मित्यादौ 'सौरभं स्मरामी ' त्येव प्रत्ययादुपनयादिहेतुत्वे मानाभावाच्च । अत एव दोषस्य न लौकिक- विषयताप्रयोजकत्वम् ; रजतादिलौकिकप्रकारतानिरूपिततादात्म्यादि- सांसर्गिकविषयतानिरूपितविशेष्यतया प्रत्यक्षं प्रति विषयादिदोषस्य हेतुत्व गौरवेण तादात्म्यादिसंबन्धेन रजतादावेव तद्धेतुत्वौचित्यात् । द्वितीयादि 11