पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] आविद्यकरजतोत्पत्त्युपपत्तिः 163 कर्षाजन्यत्वा'त्प्रमात्त्वाभाववत्प्रत्यक्षत्वाभावोऽपि स्यात् । तस्मा- दिमे इत्येवेन्द्रियजन्यम्, रङ्गरजते इति तु स्मृतिरूपमविद्या- वृत्त्यात्मकमनिर्वचनीयत्वादित्यन्यत्र विस्तरः ॥ इत्यन्यथाख्यातिभङ्गः ॥ अथाविद्यकरजतोत्पत्युपपत्तिः तच्चानिर्वचनीयमज्ञानोपादानकम्, तत्त्वज्ञानेन नाश्यं च । नन्वेवं – 'रूप्यमुत्पन्नं नष्टं चे' ति धीप्रसङ्गः, त्रैकालिक- जनकत्वात् । प्रत्यक्षत्वाभावोऽपीति । दोषस्य प्रत्यक्षहेतुता तु प्रत्युत्तेति बोध्यम् । प्रमासामान्ये मनस उपादानत्वाच्चक्षुरादिसन्नि- कर्षसहकृतस्य मनस एव चाक्षुषादिप्रमोपधायकत्वात् भ्रमसामान्येऽ- विद्यैवोपादानम् । तत्तद्दोषसंस्कारादिसहकृतायास्तस्या एव भ्रमविशे- षोपधायकत्वम् । तथा च भ्रमात्मकवृत्तेश्चाक्षुषादिरूपत्वे मानाभावः । अधिष्ठानचाक्षुषे भ्रमस्य तादात्म्याध्यासाच्चाक्षुषा दिविषयाधिष्ठाने (न) रजतादेस्तादात्म्याध्यासाच्च रजतं पश्यामीत्यादिप्रत्यय इत्याशयेनाह - तस्मादित्यादि || तर्कैः सारस्वतैः – अन्यथा ख्यातिभञ्जनम् ॥ इत्यद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायामन्यथाख्यातिभङ्गः ॥ 1 जनकत्वा. 11*