पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धो प्रतियोगितावच्छेदकप्रकारकं ज्ञानं प्रतियोग्यविषयकमप्यभाव- प्रतीत्युपयुक्तं संवृत्तमिति । अतो न सामान्यप्रत्यासत्तिनिबन्ध- नातिप्रसङ्गावकाशः । यत्तु व्याप्तिग्रहे सामान्यप्रत्यासत्तिमङ्गी- कृत्यातिप्रसङ्गेनान्यत्र तदनङ्गीकरणम् तदाशीविषमुखेऽङ्गुलिं निवेश्य वृश्चिकाद्भयनाटनम् । प्रमेयत्वेन व्याप्ति परिच्छि- न्दन् सर्वज्ञः स्यादिति व्याप्तिग्रह एवातिप्रसङ्गस्य प्राचीनै- रुक्तत्वात् । इदं च यथाश्रुतप्राचीन ग्रन्थानुसारेणोक्तम् । अन्योन्या- भावमादाय तु लौकिकपरमार्थरजतस्य निषेध्यत्वं प्राग्व्याख्यातं 168 [प्रथमः व्यावहारिकजातीयार्थिप्रवृत्ति । प्रतियोगितावच्छेदकप्रकारकं ज्ञानं रूप्यत्वादिरूपेणाभासी भूतरूप्यादिप्रसक्तिः । प्रतियोग्यविषयकं लौकि कपरमार्थरूप्यादिरूपप्रतियोग्यविषयकम् । प्राचीन ग्रन्थेति । लौकिक- परमार्थरजत निषेध्यताबोधकतत्त्वप्रदीपिकादिवाक्येत्यर्थः । व्याख्यात मिति । इदं रूप्यमिति भ्रमे प्रातीतिकरूप्ये व्यावहारिक रूप्याभेदाव- गाहनेन नेदं रूप्यमिति बाघोऽपि तयोर्भेदमवगाहते; समानविभक्तिक- नामार्थयोः प्रतियोग्यनुयोगिभावे भेदस्यैव भानादित्यादि व्याख्यातम् । तथाचोभयोरेकजात्यभावेऽपि प्रातीतिके व्यावहारिकजातीयार्थिप्रवृत्तिरुप- पद्यते, तत्र व्यावहारिकतादात्म्यारोपादिति भावः ॥ - 4 यत्तु - उभयानुगतसामान्यं प्रातीतिकं न वा आद्ये व्यावहारि- कस्य रूप्यत्वं व्यावहारिकं न स्यात्, द्वितीये प्रातीतिकस्य रूप्यत्वं व्यावहारिकं स्यात्, न चेष्टापत्तिः ; इदं रूप्यमिति घीविषयसामान्ये रूप्यत्वं नास्तीति बाधविरोधादिति -- तन्त्र ; रूप्यप्रकारक भ्रमस्थले उक्तबाघस्याम्वीकारात्, स्वीकारे आधेयतासंबन्धेनोक्तविषयस्याभावो रूप्यत्वे भातीत्यदोषात् । ननु – व्यावहारिकम्य रूप्यत्वादे: प्रमाण- वृत्तिं विना भानासंभव भ्रमस्थले तत्र तस्याः स्वीकारस्तु न संभ- -