पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] भ्रमस्य वृत्तिद्वयोपपत्तिः 173 वात् । तस्मादधिष्ठानांशेऽन्तःकरणवृत्तिः, अध्यस्तांशे चावि द्यावृत्तिः । तस्यां च तादात्म्यस्य मानानाख्यातिमतप्रवेशः || इत्याविद्यकरजतोत्पत्त्युपपत्तिः ॥ अथ भ्रमस्य वृत्तिद्वयोपपत्तिः - ननु – एवमिदमंशस्याप्यध्यस्तत्वेनेदमिति यात्मकम्, इदं रुप्यमिति च त्रथात्मकम्, स्वझे इदं रुप्यमिति ज्ञानं चतु- रात्मकं च स्यादिति - चेन; इदंत्वस्याध्यस्तत्वेऽपि नेदमिति मेन नाश्यत्वात्, एवं रूप्यादितद्भमयोरबाधितयोरुत्तरेण मनःपरिणा- मेनापि नाशो लाघवात् ; पल्लवाविद्यापरिणामत्वेनागन्तुकदोषप्रयुक्ता- विद्यापरिणामत्वेन वोत्तरधीनाश्यत्वादित्युक्तत्वादिति । तथाचाधिष्ठान- सद्रूपसंबन्ध एव गृह्यते, तत्तु तात्त्विकत्वाभावसाधकम् यत्तु , स्वकाले सत्ताग्राहकं कालत्रये मिथ्यात्वाभावमवश्यं गृह्णातीति तन्मानाभावादिना प्रत्युक्तम् । तस्यां मनोवृत्तौं । तादात्म्यस्य – अविद्यावृत्ति- तादात्म्यस्य || तर्कैः सारम्वतै रत्नैश्चन्द्रिका चन्द्रभूषणैः दुरन्तध्वान्तभङ्गाय रूप्याद्यज्ञानसंभवम् || इत्यद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायामा विद्यकर जतोत्पत्त्युपपत्तिः ॥ अथ भ्रमस्य वृत्तिद्वयोपपत्तिः नन्वेवमिति । एवं अध्यस्तस्य मनोवृत्तिविषयाधिष्ठानसापेक्षत्के। इदमंशस्य इदंत्वस्य । अध्यस्तत्वेन संसृष्टरूपेणाध्यस्तत्वेन ।