पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्रमस्य वृत्तिद्वयोपपत्तिः स्तत्वनियमेनाविद्यावृत्तेरप्यविद्यावृत्तिप्रतिबिम्बितचैतन्यवेद्यत्वम्, एवं तस्यापि तस्यापीत्यनवस्थितिरिति चेत्, सत्यमेतत् । न पुनरन- -- --- , , यत्तु – इदमंशाधिष्ठानस्य प्रकाश स्वतः इदमंशावच्छिन्नस्य तु वृत्तिकृत इति यात्मकता स्पष्टा । एवं स्वप्ने इदमंशस्याबाधेन तदंशे वृत्तिरुत्कृष्टा, रूप्यस्य तु बाधेन तदंशे वृत्तिरपकृष्टा, चिन्मात्रे स्वयंप्रकाशोऽविद्यावच्छिन्नचिति चाविद्यावृत्तिरिति चतुरात्मकता स्पष्टेति- ततुच्छम् ; स्वप्रकाशचितमादाय द्वयात्मकतादेरिष्टत्वात् । आचार्य - दूष्यप्रकृतग्रन्थे हीदं रूप्यमिति ज्ञानं त्रयात्मकम्, स्वप्ने तच्चतुरात्मकं स्यादित्युक्तम् । तत्र स्वप्रकाशचितमादाय स्वप्ने 'चतुरात्मकत्वमापद्येत । तस्मादाघारारोप्ययोर्वृत्तिद्वयाङ्गकारे इदमित्यत्रैव तयोर्वृत्तिद्वयापादनं तत्राभिप्रेतम् तच्च न संभवति ; इदं रूपारोप्यस्य रजतावच्छिन्न- चिद्रूपाघारस्य चैकस्यामविद्यावृत्तौ विषयत्वात् । न च रजतभ्रमं प्रतदिज्ञानस्येवेदंत्वभ्रमं प्रति रजतज्ञानस्यापि हेतुत्वादविद्यावृत्तिद्वय- मावश्यकामति–वाच्यम्; न ह्यारोपे आधारावच्छेदक सामान्यज्ञानं हेतु:, पूर्व रजतज्ञानं विनापीदं रजतमिति भ्रमोदयात्, किंत्वारोप- हेत्वविद्याविषयावच्छेदकस्य सामान्यरूपेण ज्ञानम् ; विशेषरूपेणैय तस्यावृतत्वात् इदंत्वारोपं प्रतीव रजतं नोक्तविषयावच्छेदकम् । तस्मादिदंत्वसंसर्गरजतयोरेकस्यामविद्यावृत्तौ इदमाकारमनोवृत्तिर्हेतुरितीदं रजतमिति भ्रमे ट्र्याकारे त्र्याकारत्वापादनं मौड्यादेव। स्वप्ने उत्कृष्टा- पकृष्टवृत्तिद्वयोक्तिरपि तथैव; स्वप्नदृष्टं सर्वमिदमादि मिथ्येति पश्चा- द्वाषेनाबाधित विषयक त्वरूपोत्कर्षासंभवात् । तथाच तत्रैकैवाविद्या- वृत्तिरिदंरूप्योभयविषयकेति ध्येयम् || परिच्छेदः] १ , 175 1 स्वप्ने चतुरात्मकत्वस्याभिप्रेतत्वे इदं स्प्पयामिति ज्ञापि चतु-क. ग. 2 इदंत्व - क. ग.