पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्तात्रैविध्योपपत्तिः 187 स्यानारोपितविशेषत्वे इष्टापत्तेश्चेति चेन्न; द्वितीयपक्षस्यैव क्षोद- क्षमत्वात् । तथाहि अबाध्यत्वरूप मारोपितानारोपितयोः सामा- परिच्छेदः] - न्यम् । अन्यदा बाध्येऽपि स्वकालाबाध्यत्वमात्रेणारोपितेऽपि तस्य संभवात्, आरोपितानारोपितयोरेकसामान्याभावे प्रवृत्त्या - धनुपपत्तेरुक्तत्वात् । अत एवोक्तम्- 'आकाशादौ सत्यता तावदेका प्रत्ययात्रे सत्यता काचिदन्या । तत्संपर्कात्सत्यता तत्र चान्या व्युत्पन्नोऽयं सत्यशब्दस्तु तत्र " || इति || यथा प्रातिभासिकरजते ज्ञातैकसदेकं रजतत्वम्, लौकिक- परमार्थरजते चाज्ञातसदपरं रजतत्वम्, तदुभयानुगतं चारोपि- व्यावहारिकज्ञानस्योक्तश्रुतीनां चेत्यनुषज्यते । अनारोपित विशेषत्वे प्रातिभासिकव्यावृत्तस्यानारोपित विशेषस्याश्रयत्वे अबाध्यत्वरूपं बाघ- विषयत्वसामान्याभावरूपम् । स्वकालाबाध्यत्वमात्रेण स्वकालाव- च्छिन्नेन बाधविषयत्वसामान्याभावेन । मात्रपदाद नवच्छिन्नस्योक्ताभा- वस्य व्यवच्छेदः । तृतीयार्थस्याभेदम्य तस्येत्यत्रान्वयः | प्रवृत्त्याद्य- नुपपत्तेरिति । येन हि रजतत्वादिसामान्येन विशिष्टं पूर्वमुपलब्धं तत्प्रकारकप्रवृत्तेर्भ्रमस्थलेऽप्यनुभवसिद्धाया उपपादनाय तत्प्रकारकत्वं श्रमस्यावश्यं वाच्यम्; तथा चाबाध्यत्वप्रकारकप्रवृत्तयेऽबाध्यत्वप्रका- रकत्वमपि तस्यावश्यकमित्यन्यथाख्यातिदूषणामविषयेऽबाध्यत्वादिसा- मान्यसिद्धिरिति भावः । ज्ञातैकसदिति । उभयानुगतजातेर्दोषादि- कार्यतावच्छेदकत्वासंभवात्प्रमाणव्यापारं बिना प्रातीतिकरजते भानासं- भवात्, व्यक्तिविशेषसंबन्धित्वेनैव प्रमाणवेद्यत्वनियम इति कल्पने गौरवात्, तद्व्यक्तित्वादिनाप्युभयानुगतजातेः प्रमाणवेद्यत्वनियमाच्च ज्ञातैकसद्रजतत्वाद्यावश्यकामति भावः । अज्ञातसदपरमिति | साक्षि-