पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारच्छेदः] तृतीयमिथ्यात्वनिरूपणम् 97 गिपूर्वषीजन्य संस्कारादौ सिद्धसाधनम् । अनायविद्यादौ च बाधः । तादृशप्रतियोग्यविद्योपादानकत्वोक्तौ प्रतियोग्यन्तवैयर्थ्य अनादिदृश्ये ' बाघश्च । न द्वितीयः, घटाद्यवस्थितेर्हि सामान्येन विरहो घटादेः स्वरूपविरहः कारणरूपविरहश्चेति द्वयं विशेषाभावान्यसामान्याभा वस्य त्वयैवाविद्यावादे निरस्यत्वात् । तथाच स्वरूपविरहस्य ज्ञाना- प्रयुक्तत्वादसम्भवः, अवस्थात्वस्यातिप्रसक्तत्वेन ज्ञानप्रयुक्तविरहप्रतियो- गितानवच्छेदकत्वाच्च । शुक्तिरूप्यादेः स्वरूपेणावस्थित्यकारे स्वरू- पेण निषेधस्यासम्भवात् शुक्तिरूप्याद्यभावस्य शशविषाणाद्यभाववत् ज्ञानाप्रयुक्तत्वाच्च साध्यवैकल्य बाधश्चेत्यपास्तम्। किंच ज्ञानकाला- विद्यमानं यत् घटादिस्थूलस्वरूपं तद्विरहस्य सूक्ष्माबस्था रूपस्य ज्ञानाप्र- युक्तत्वऽपि ज्ञानकालविद्यमानं यद्धटादिस्थूलरूपं तद्विरहो ज्ञान प्रयुक्त एव, ज्ञानकालाविद्यमानस्थूलेऽपि स्वकीयसूक्ष्मावस्थाध्वंसस्य ज्ञानप्रयु- क्तस्य प्रतियोगित्वमव्याहतं, घटप्रागभावे घटध्वंसप्रतियोगित्ववत् । तथाच स्वरूपविरहो ज्ञानाप्रयुक्त इति न व्याहतम् । अपिच सामान्या- भावास्वीकारेऽपि विशेषाभावकूटनिष्ठेन अज्ञानकार्यत्वावच्छिन्न प्रतियोगि- ताकविरहत्वेन एकाज्ञानपक्षे अज्ञानध्वंसोत्तरमशानप्रयुक्तध्वंसस्वकिारें अज्ञानभिन्नदृश्यत्वावच्छिन्न प्रतियोगिताकविरहत्वेन युगपत्सर्वदृश्यध्वंस- स्वीकारे दृश्यत्वावच्छिन्न प्रतियोगिताकावरहत्वेन ब्रह्मज्ञानप्रयुक्तत्वाङ्गी- कारात् ज्ञानप्रयुक्ततावच्छेद कस्वावच्छिन्न प्रतियोगिताकविरहत्वधर्मवत्त्वं लक्षणं निर्दोषम्। न च ध्वंसस्यैव ज्ञानप्रयुक्तत्वान्नोक्तरूपेण तत्, अन्यथा शुक्तिरूप्यादे: उत्पत्तिपूर्व अनधिकरणदेशे वा तदभावो ज्ञानप्र- युक्त इति स्यादिति वाच्यम् ; दाहस्य हेत्वभावकाले जलादौ वा तदभावो मणिप्रयुक्त इति बुद्ध्यभावात्, देशकालविशेषावच्छेदेन तदभावस्य तत्प्रयुक्तत्ववद्देशकालविशेषावच्छेदेन संसर्गाभावमात्रस्यैव 1 अज्ञानध्वंस. पा. A.S.V. 7