पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] तृतीयमिथ्यात्वनिरूपणम् सह ज्ञानेन निवृत्तिर्बाधः' इति । वार्तिककुद्भिश्रोक्तम्- तन्त्रमस्यादिवाक्योत्थसम्यक्धीजन्ममात्रतः । अविद्या सह कार्येण नासीदस्ति भविष्यति ॥ इति । सह कार्येग नासीदिति लीनेन कार्येग सह निवृत्यभिप्रायम् । 'सह कार्येण न भविष्यति' इति तु भाविकार्य निवृत्त्यभिप्रायमित्यन्यदेतत् । रूप्योपादानमज्ञानं 99 स्वरूपकथनमपि अतीतस्यापि वर्तमानज्ञानं बाध इत्यत्रोपष्टम्भकम् । अज्ञानप्रयोज्यत्य ज्ञानप्रयुक्ता निवृत्तिः निवृत्तिस्वरूप योग्यं ज्ञानं वा बाघ इति बाघसामान्यलक्षणम्। प्रयुक्तत्वस्य स्वरूपयोग्यत्वस्य चाज्ञा- ननिवृत्तिद्वारकत्वं वाच्यम् । तेनोत्तरधीप्रयुक्तपूर्वधीनिवृत्तौ नातिव्याप्ति । अज्ञानतत्प्रयुक्तयोः ध्वंसैक्ये निवृत्तावज्ञानप्रतियोगिकत्वं वाच्यम् । ज्ञानत्रयुक्तेति न वाच्यम्। स्वरूपयोग्यत्वं च साक्षादेव वाच्यमिति दिक्। लीनेन कार्येणेति । येन कार्येण सह अविद्या आसीत् येन चास्ति भविष्यति तैस्सह सा तत्वज्ञानान्नास्तीति श्लोकार्थ । तत्राविद्याया इवातीतादिकार्याणामपि ध्वंसरून संसर्गाभावस्य तत्त्वधीप्रयु- तत्वप्रततिरतीतस्य च सूक्ष्मावस्थारूपो ध्वंसो न वर्तमानतत्त्वषीप्रयुक्तः तस्य तत्त्वाप्रत्ययात् । किन्तुक्तावस्थाप्रतियोगिकध्वंस इति ज्ञानप्रयुक्त- ध्वंस योगत्वाय लोनावस्था आवश्यकीति भावः । भावीति । वर्तमानतत्त्वज्ञाने नाज्ञानस्य आवरणशक्ति मात्रस्य वा निवृत्तिद्वारा भुज्यमा- नकर्मफलस्य भाविनो निवृत्तिः । सा च प्रकृतानुपष्टम्भि- केत्याह – इत्यन्यादति । 1 स्वरूपयोग्यत्वात् 7*