पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] साधनादि । नापीच्छाद्यनिवर्त्यै स्मृतित्वेन ज्ञाननिव संस्कारे अतिव्याप्तिः, स्मृतित्वेन स्मृतेः संस्कारनिवर्त- कत्वे मानाभावात् । स्मृतौ हि जातायां संस्कारो दृढो भवती- त्यनुभवसिद्धम् । दृढत्वं च समानविषयकसंस्कारानेकत्व- मित्यदोषः । वस्तुतस्तु साक्षात्कारत्वेन ज्ञाननिवर्त्यत्वं विव- क्षितम् । अतो न पूर्वोक्तदोषः । नापि निश्चयत्वेन ज्ञानत्व- तृतीयमिथ्यात्वानरूपणम् 101 त्यर्थः । व्यापकत्वरूपावच्छिन्नत्वस्य तृतीयार्थत्वान्नाम्नोप्युदीच्यविशेष- परत्वाच्च । तथाच गुणत्वादिना निवर्तकत्वं, निवर्त्यता तु धर्मादि- व्यावृत्तेन शब्दसाधारणेन । न च ज्ञानादेः क्षणिकत्वापत्तिः स्वस्यैव नाशकत्वादिति वाच्यम्; पूर्वत्वसम्बन्धेन नाश कत्वस्वीकारात् । । वस्तुतस्तु उदीच्यत्वेनेत्यस्य जातिविशेषेणेत्यर्थः । तेन गुणत्वादेः व्यापकत्वेन अन्यथासिद्ध्या विनिगमकाभावेन च ज्ञानत्वादिना न तत्प्रसक्तिः । यत्तु सिद्धान्ते पूर्वधनिवृत्तिरेवोत्तरधीः अतो न सिद्ध- साध्यतेति, तन्न; ज्ञानमेवाज्ञाननिवृत्तिरित्यस्यापि तुल्यत्वात् ज्ञाना- त्मक निवृत्तिप्रतियोगित्वे वाच्ये तद्दोषतादवस्थयात् अनुभवसिद्धं विल- क्षणस्मृत्यादिकार्येणानुमेयम् । ननु अनुमेयो विलक्षणसंस्कारोपि स्मृति- जन्य इति स्मृत्या पूर्वसंस्कारनाश एवेत्यत आह - दृढत्वं चेति । तथाच समानविषयकत्वादिसम्बन्धन संस्कारविशिष्टसंस्कारत्वेन विल- क्षणस्मृतौ हेतुत्वं न तु विलक्षणसंस्कारत्वेन, वैलक्षण्यस्य तत्र स्मृतिनियम्यत्वस्य संस्कारनाशादेश्व कल्पने गौरवात् । न चोपे- क्षात्मकस्मृत्युत्तरं स्मृत्यापत्तिः, उद्बोधकाभावात् । पदज्ञानत्वाद्यनुगत- रूपे विशेष्यविशेषणत्वा विनिगम्यत्वेन नानाहेतुत्वापत्त्या विजातीय- त्वेनैवोद्बोधकत्वादिति भावः । संशये बिपरीतज्ञाने । यद्यपि ध्वंसत्वेन प्रयुक्तत्वोक्तौ नायं दोषः अनादिसंसर्गाभावस्यैव निश्चयादिप्रति -